संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

अल्मोड़ाजनपदे ०१ मार्चमासे व्याख्यानं संजायते।

उत्तराखण्डसंस्कृत-अकादमी-सचिवस्य श्रीशिवप्रसादखालीवर्यस्य संरक्षकत्वे भविष्यति सम्मेलनं

• संयोजकेन डॉ० प्रकाशचन्द्रजांगीद्वारा व्याख्याने समामन्त्रिता: विद्वांस:

उत्तराखण्ड।अल्मोड़ा। सुरभारतीसमुपासकानां कृते महत: प्रमोदस्य विषयो$यं यत् उत्तराखण्ड -संस्कृत-अकादमी-हरिद्वार-द्वारा संस्कृतभाषाया: प्रचाराय, प्रसाराय, संवर्धनाय, संरक्षणाय च प्रतिवर्षम् इव अन्तर्जालमाध्यमेन संस्कृतव्याख्यान-मालाया: आयोजनं क्रियते, तस्यामेव शृंखलायाम् अस्मिन् वर्षे$पि २५ फरवरी २०२३ दिनांकत: ५ मार्च २०२३ दिनांकपर्यन्तम् अन्तर्जालीया संस्कृतव्याख्यानमाला आयोज्यते। क्रमेस्मिन्नेव अल्मोड़ाजनपदद्वारा मार्चमासस्य ०१ प्रथमे दिनांके प्रातः ११:०० वादनत: संस्काराणां वैशिष्ट्यं वर्तमाने प्रासंगिकता च
इतिमुख्यविषयान्तर्गत: पंच महायज्ञा: (देव-पितृ-मनुष्य-भूत-ब्रह्म-यज्ञा:) इतिविषयमधिकृत्य व्याख्यानम् आयोज्यते।

कार्यक्रमे$स्मिन् भवन्त: सादरं सपरिवारम् आमंत्रिता: सन्ति कृपया निर्दिष्टकार्यक्रमानुसारम् ई० माध्यमेन समुपस्थाय आयोजकान् अनुगृह्णन्तु।

संस्काराणां वैशिष्ट्यं वर्तमाने प्रासंगिकता च
इतिमुख्यविषयान्तर्गत: पञ्चमहायज्ञाः (देव-पितृ-मनुष्य-भूत-ब्रह्म-यज्ञा:) इत्यत्र विदुषां कार्यक्रम:
बुधवासरे: 1 Mar. 11:00 वादनत: Google Meet joining info_ Video call link:_ https://meet.google.com/onz-kawx-oyr इत्यनेन माध्यमेन समारप्स्यते ।

कार्यक्रमस्य मुख्यातिथिः- प्रो० जया तिवारी संस्कृतविभागाध्यक्षा कुमाऊँ-विश्वविद्यालयनैनीतालत:
कार्यक्रमाध्यक्षः-प्रो०विनयकुमारविद्यालंकार: शिक्षाप्रशिक्षण संकायाध्यक्षः गुरुकुल-कांगडीविश्वविद्यालय-हरिद्वारत:
मुख्यवक्ता डॉ० चन्दनकुमारमिश्रः सहायकाचार्य:, वेदविभागः श्रीजगन्नाथसंस्कृतविश्वविद्यालयपुरीउड़ीसात: भविष्यन्ति

आमन्त्रितातिथय:- डॉ० कमलेशशक्टा सहायकाचार्य:, राजकीय-स्नातकोत्तर-महाविद्यालय:, लोहाघाटत:, डॉ० मूलचन्द्रशुक्ल:, सहायकाचार्य:, राजकीय- स्नातकोत्तर महाविद्यालय-रामनगरत: डॉ. नवीनजसोला, सहायकाचार्य:, हिमालयीय-आयुर्वेदिक-मेडिकल-कॉलेज-देहरादूनत:, डॉ० उमेशचन्द्र: जोशी, सहायकाचार्य:, राजकीय-स्नातकोत्तर-महाविद्यालयबागेश्वरत:, डॉ. हेमचन्द्रः सहायकाचार्य:, राजकीय-आदर्श-महाविद्यालयदेवीधुरात:, डॉ० हरीशकुमारकोठियाल:, सहायकाचार्य:, राजकीयस्नातकोत्तर- महाविद्यालयकाण्डाबागेश्वरमत:, डॉ० नीतूसिंहसहायकाचार्या, राजकीयमहिलामहाविद्यालयलक्सरहरिद्वारत: डॉ० नीरजकुमार: जोशी, सहायकाचार्य:, उत्तराखण्डमुक्तविश्वविद्यालयहल्द्वानीत: डॉ० नवीनचन्द्रपन्त:, प्रवक्ता ऋषिकुलविद्यापीठसंस्कृतमहाविद्यालयहरिद्वारत: डॉ० हेमन्तकुमार: जोशी, प्रवक्ता राजकीय- माध्यमिकविद्यालय-कुसुमखेडा-हल्द्वानीत:, डॉ० हेमचन्द्रबेलवालः प्रक्क्ता, राजकीय- माध्यमिक-विद्यालय- थलम् , डॉ० चन्द्रप्रकाशोप्रेति, प्रवक्ता, महात्मागांधी माध्यमिकविद्यालयहल्द्वानीत:, डॉ० हेमन्तकुमारजोशी, प्रवक्ता, राजकीयमाध्यमिकविद्यालयपतलोटम्नैनीतालत: व्यायानकार्यक्रममलंकरिष्यन्ति ।

राजकीयमहाविद्यालयशीतलाखेत-अल्मोड़ात: सहायकाचार्य:
डॉ० प्रकाशचन्द्रजांगी व्याख्यानमालाया: संयोजक: वर्तते। तथा च तेन प्रोक्तं यत् सहसंयोजक: डॉ० भूपेन्द्रः सहायकाचार्य: राजकीयमहाविद्यालयमासी-अल्मोड़ात: एवञ्च संरक्षक:
डॉ० एस० पी० खाली सचिवः उत्तराखण्ड-संस्कृत-अकादमी- हरिद्वारत: , च राज्यसंयोजक: डॉ० हरीशचन्द्र: गुरुरानी शोधाधिकारी उत्तराखण्ड-संस्कृत-अकादमीहरिद्वारत: विद्यन्ते। प्रतिजनपदेषु व्याख्यानमालासु एतेषां मार्गदर्शनं सर्वै: प्राप्स्यते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button