संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशविदेश

आध्यात्मिकनगरेषु अपि वैश्विकशिखरसम्मेलनस्य प्रभावः, ‘वृत्त्याः गङ्गा’ भविष्यति प्रवाहिता

योगिसर्वकारेण अयोध्या–काशी–मथुरा–चित्रकूट–सीतापुर–मिर्जापुर–प्रयागराजं च प्रथमं दापितं पृथक् परिचयं, अधुना निवेशमाध्यमेन अत्रत्याः युवानः अपि वृत्तिद्वारा प्राप्स्यन्ति अवसराः

• सप्त आध्यात्मिकनगरेषु एव पञ्चत्रिंशतसहस्रोत्तरचतुर्लक्षाधिकं वृत्तिनां अवसराः भविष्यन्ति सृजिताः।

• पर्यटन–विश्रामालय–शिक्षा–संस्कृति–चेत्यादिभिः सम्बद्धं निवेशं भूमौ आनेतुं योजना।

लखनऊ। योगिसर्वकारेण आध्यात्मिकनगराणाम् अयोध्या–काशी–मथुरा–चित्रकूट–सीतापुर–मिर्जापुर–प्रयागराज–चेत्यादीनां पृथक् परिचयः दत्तः । प्रथमकार्यकालात् एव एतेषां नगरानां समग्रविकासः योगिनः आदित्यनाथस्य ध्येयम् अस्ति । एकतः यत्र अयोध्यायां पञ्चशतवर्षाणां प्रतीक्षानन्तरं श्रीराममन्दिरस्य निर्माणं क्रियते, अपरतः काश्यां विश्वनाथवीथीकायाः कारणात् श्रद्धालुनां सङ्ख्यायाम् अपि तीव्रतया वृद्धिः भवति । मिर्जापुरे विन्ध्यवीथीकायाः निर्माणं प्रचलति तु सीतापुरे नैमिशारण्यतीर्थस्थलस्य सौन्दर्यीकरणं कृत्वा धरोहरस्य सम्मानः कृतः । श्रीकृष्णस्य जन्मभूमिः मथुरा वा प्रयागराजः भवतु, सर्वकारेण सर्वाणि तीर्थस्थानानि विकसितानि । तिरुपतिबालाजी–वैष्णोदेवी–शिरडीसाई चेत्यादयः अनेके एतादृशाः मन्दिराः सन्ति, ये स्वस्वराज्यस्य आयसृजनस्य, वृत्त्याः च बृहत् स्रोतः सन्ति । एतादृशे सति प्रमुखधार्मिकतीर्थस्थलेभ्यः उत्तरप्रदेशः न केवलं आध्यात्मिकरूपेण अपितु आर्थिकरूपेण अपि पराकाष्ठां प्राप्स्यति । वैश्विकनिवेशकशिखरसम्मेलनस्य माध्यमेन एतेषु सप्तनगरेषु चतुर्दशसहस्रोत्तरचतुर्लक्षकोटिरूप्यकाणां निवेशः कृतः तथा च वृत्त्याः पञ्चत्रिंशतसहस्रोत्तरचतुर्लक्षाधिकाः अवसराः सृजिताः ।

“राममन्दिरेण सह अयोध्यायाः विकासः, सीतापुरे अपि वृत्त्याः सृजनम्”

अयोध्यायां मर्यादा पुरुषोत्तमश्रीरामस्य मन्दिरस्य निर्माणं तीव्रतया प्रचलति । 2024तमस्य वर्षस्य जनवरीमासं यावत् सर्वकारेण अस्य राष्ट्रमन्दिरस्य निर्माणं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति । मन्दिरस्य निर्माणानन्तरं पर्यटन–विश्रामालयः–रसद–चेत्यादिषु अनेकक्षेत्रेषु वृत्त्याः अवसराः सृजिताः भविष्यन्ति । वैश्विकशिखरसम्मेलने एतेषु नगरेषु 45402कोटिरूप्यकाणां प्रस्तावाः प्राप्ताः । एतेन माध्यमेन 53472युवानः वृत्त्या सह सम्बद्धाः भविष्यन्ति । सीतापुरस्य नैमिषारण्ये भारतस्य वैदिकसाहित्यस्य लेखनम् अभवत् तत्र 28304कोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः । सीतापुरजनपदे अपि अनेन माध्यमेन 25852सङ्ख्यकेभ्यः युवभ्यः स्वगृहेषु वृत्त्याः प्राप्स्यन्ति ।

“काशी-मिर्जापुरयोः युवानः अपि पर्यटनस्य सम्भावनाभिः भविष्यन्ति लाभान्विताः”

काश्यां विश्वनाथवीथिकायाः निर्माणानन्तरं अत्रैव श्रद्धालुनाम् आवागमनं वर्धितम् । वीथिकायाः अनन्तरं प्रसादवितरक–तिलक-चन्दनस्थापकै सह लघुवृत्त्याः वृहद् अवसराः सृजिताः तु पर्यटनस्य अपि अतीव शीघ्रं वृद्धिः अभवत् । एतेन सह अत्रैव विभिन्नक्षेत्रेषु निजी उद्यमिनः माध्यमेन सर्वकारः अपि वृत्त्याः अवसराः प्रदातुं आशावान् अस्ति । काश्यां निवेशार्थं चतुस्त्रिंशत्यधिकचतुर्शतप्रस्तावाः सर्वकारेण प्राप्ताः सन्ति । आहत्य चतुर्विंशत्यधिकद्विशतकोट्योत्तरसप्तत्रिंशतसहस्राधिकैकलक्षानां निवेशस्य योजनामाध्यमेन अष्टाधिकैकशतोत्तरपञ्चत्रिंशतसहस्रैकलक्षं जनेभ्यः वृत्तिः प्राप्स्यन्ते । तस्मिन् एव काले मिर्जापुरस्य विन्ध्यचलधाम्यां विन्ध्यवीथिकायाः कार्यमपि द्रुतगतिना प्रचलति । अत्र माँ विन्ध्यवासिनी इत्यस्याः द्वारे श्रद्धुलानां विशालः सम्मर्धः जनयति । मिर्जापुरस्य वित्तकोषे अपि वैश्विकशिखरसम्मेलनमाध्यमेन 64010कोटिरूप्यकाणां प्रस्तावाः आगताः । सर्वकारः पञ्चविंशतिसहस्रयुवभ्यः विन्ध्याचले वृत्तिं उपलब्धुं प्रयत्नशीलः ।

“मथुरा–चित्रकूट–सङ्गमतीरे अपि वृत्त्याः”

श्रीकृष्णस्य जन्मभूमिः मथुरा, भगवान् श्रीरामेण सह सम्बद्धं चित्रकूट–सङ्गमनगरस्य प्रयागराजस्य सर्वकारेण अधिकं विकसितम् । 2019तमे वर्षे आयोजिते प्रयागराजकुम्भे सर्वकारेण अस्य नगरस्य स्थितिः परिवर्तिता । सर्वकारस्य अनेन निर्णयेन स्थानीयजनैः सह देशे प्रदेशे च अपि करतलवादनं प्राप्तम् । योगिसर्वकारेण न केवलं एतानि नगराणि आर्थिकदृष्ट्या समृद्धानि कर्तुं उपक्रमः कृतः, अपितु वैश्विकशिखरसम्मेलनमाध्यमेन वृत्त्याः अवसराः अपि सृष्टाः । अत्र पर्यटनं, विश्रामालयः चेत्यादिषु अनेकक्षेत्रेषु निवेशकानां कृते अपि सुगममार्गः सज्जीकृतः अस्ति । मथुरायां 23798कोटिरूप्यकाणां निवेशेन 50387सङ्ख्यकाः, चित्रकूटनगरे 78471सङ्ख्यकः जनानां कृते 63059कोटिरूप्यकाणां, प्रयागराजे 67033सङ्ख्यकः जनानां कृते 53152कोटिरूप्यकाणां च वृत्त्याः सृजिताः भविष्यन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button