संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
विदेश

विश्वहिन्दीसम्मेलने फिजीदेशे हिन्दीभाषाया: लोकप्रियता गुञ्जायमाना अभवत्।

।।सम्मेलने समापनसमारोहं फिजीदेशस्य उपप्रधानमंत्री बिमानप्रसाद:, भारतस्य विदेशमंत्री डॉ. एसजयशंकर:, विदेशराज्यमंत्री वी मुरलीधरन: तथा च गृहराज्यमंत्री अजयमिश्रा सम्बोधितवन्त: ।।

• प्रतिनिधिषु विश्वहिन्दीसम्मेलने 50 देशानां प्रतिभागिन: समागता।

• हिन्दी-पारम्परिकज्ञानात् कृत्रिमबुद्धि: इत्येव
सम्मेलनस्य मुख्यविषय: आसीत् ।

संस्कृत समाचार। विदेशमंत्रालयद्वारा फिजीसर्वकारस्य सहयोगेन द्वादशतमं त्रिदिवसीयमिदं विश्वहिन्दीसम्मेलनम् नाड्याम् आयोजितम् अभवत्। अत्र हिन्दी-पारम्परिकज्ञानात् कृत्रिमबुद्धि: इत्येव
सम्मेलनस्य मुख्यविषय: आसीत्।
प्रतिनिधिषु विश्वहिन्दीसम्मेलने 50 देशानां प्रतिभागिन: समागता: आसन्।

सम्मेलने हिंदीभाषाविकाससन्दर्भे प्रदर्शन्या: अपि आयोजनं सञ्जातं। तथा च सांस्कृतिककार्यक्रम: कविसम्मेलनम् अपि समायोजितोभवत्।

एकस्मिन् मञ्चे विश्वस्य सर्वेभ्यः हिन्दीसाहित्यकाराः एकत्रिताः आसन् । विदेशेभ्यः हिन्दीप्रेमिणः, विद्वांसः फिजीदेशे विश्वहिन्दीसम्मेलने अन्तर्राष्ट्रीयहिन्दीसंवादे भागं गृहीतवन्तः। भारतसहितम् अन्तर्राष्ट्रीयविभिन्नदेशानाम् अधिकारिणां एवं प्रतिनिधीनां तथा च भारतत: उत्तरप्रदेशस्य पूर्वशिक्षामन्त्रिण: माननीयकेन्द्रीयाध्यक्षस्य डॉ.रविन्द्रशुक्लस्य नेतृत्वे सम्भागोभवत् ।

“१५त:१७ दिनाङ्कपर्यन्तं विश्वहिन्दीसम्मेलनं प्राचलत्”

फिजीदेशे २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १५ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं विश्वहिन्दी-सम्मेलनस्य आयोजनं सञ्जातं। भारतसहितस्य सम्पूर्णविश्वस्य प्रख्याताः लेखकाः, साहित्यकाराः, भाषाविदः, शिक्षाविदः च भागं गृहीतवन्त:। अस्मिन् क्रमे भारतसर्वकारेण सम्मेलनाय फिजीदेशाय प्रतिनिधिमण्डले लेखकाः, हिन्दीकार्यकर्तारः, साहित्यकाराः, कुलपतय:, संस्कृतिविदेशमन्त्रालयस्य वरिष्ठाधिकारिणः सम्प्राप्ता: आसन् ।

“मंत्रमुग्धा” “गीता वदति” इत्यनयो: भव्यलोकार्पणं च भव्यस्वागतं”

शैलपुत्रीफाउण्डेशनद्वारा प्रकाशितकाव्यसंग्रहस्य ‘मंत्रमुग्धा’ इत्यस्या: तथा डॉ. सतीशंकरद्वारा प्रकाशितस्य ‘गीता वदति’ इत्यस्य पुस्तकस्य अपि भव्यसुखदलोकार्पणम् अभवत् । अस्मिन्समये उद्घाटनं भारतीयोच्चायोगमॉरीशसस्य द्वितीयसचिव: श्रीमती सुनीता पाहुजा, प्रो.नीलम राठी, डॉ. विकासदवे, निदेशकसाहित्य-अकादमीमध्यप्रदेशत:, प्रो.माला मिश्रा, प्रो.पवन-अग्रवाल:, प्रो .सुशीलशर्मा, इत्येषां च भारतसर्वकारस्य हिन्दीसाहित्यकार्यकर्तृणां, साहित्यकाराणां, विभिन्नाधिकारिणां च गौरवशालिनां सानिध्ये अभवत्। विमानस्थले फिजीदेशे विश्वहिन्दीसम्मेलने भारतीयराज्यप्रतिनिधिमंडलस्य भव्यसुरम्य संगीतेन स्वागतं सञ्जातं । तेषु प्राध्यापक: बलदेवभाईशर्मा, माननीयकुलपति: कुशाभाऊ ठाकरे पत्रकारिता एवं जनसंचारविश्वविद्यालयछत्तीसगढ़त: अपि आसन्।

सम्मेलने समापनसमारोहं फिजीदेशस्य उपप्रधानमंत्री बिमानप्रसाद:, भारतस्य विदेशमंत्री डॉ. एसजयशंकर:, विदेशराज्यमंत्री वी मुरलीधरन: तथा च गृहराज्यमंत्री अजयमिश्रा सम्बोधितवन्त: ।

*15विगतवर्षेभ्यः रूसदेशे हिन्दीभाषा पाठ्यते*

विश्वहिन्दीसम्मेलनाय रूसदेशात् अपि फिजीदेशं समागता: यत्र 15विगतवर्षेभ्यः रूसदेशे हिन्दीभाषा पाठ्यते। रामायणस्य, रामचरितमानसस्य, भारतीयसंस्कृतेः च विभिन्नपक्षेषु निरन्तरकार्यकर्तृत्वेन कार्यं कुर्वन्तः एते सर्वे सहचराः अनुकरणीयाः सन्ति….

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button