पंजाबसंस्कृत भारती

संस्कृतभारतीपञ्जाबस्य कार्यकर्तृसम्मेलनं सफलतापूर्वकं सम्पन्नमभवत्

संस्कृतभारतीपञ्जाबस्य प्रान्तसम्मेलनं पटियालानगरे सम्पन्नम्। अत्र सम्पूर्णपञ्जाबस्य विविधनगरेभ्यः चतुर्युताः कार्यकर्तारः भागं गृहीतवन्तः। मुख्यवक्तृरूपेण संस्कृतसंवर्धनप्रतिष्ठानस्य निदेशकः डॉ. चान्दकिरणसलूजा उपस्थितोभूत् । तेन संस्कृतभाषायाः महत्त्वं, राष्ट्रीयशिक्षानीतौ तस्य स्थानं च विवेचितम्।

उत्तरक्षेत्रस्य सम्पर्कप्रमुखः डॉ. जगदीशकुमारः उक्तवान् यत् संस्कृतभारती संस्कृतभाषां जनसामान्यस्य भाषारूपेण प्रतिष्ठापयितुं प्रयासरता वर्तते

सम्मेलने विविधसत्रेषु संस्कृतभाषायाः संवर्धनं केन प्रकारेण कर्तव्यमिति विषयं गूढतया चिन्तितम्। सांस्कृतिककार्यक्रमेषु गिद्धनृत्यं, भांगडानृत्यं, गीतापाठं, स्तुतिगानं च आयोजितमासीत्। विज्ञान-प्रदर्शनी अपि विशेषाकर्षणं जातम्।

उत्तरक्षेत्रस्य संगठनमन्त्री नरेन्द्रकुमारः समापनसत्रे वक्तृरूपेण उक्तवान् यत् भारतीयसंस्कृतेः रक्षणाय संस्कृतभाषा अत्यावश्यकास्ति। तेन भाषायाः प्रभावं प्रतिपाद्य, संस्कृतभारती पञ्जाबे संस्कृतप्रचाराय दृढसंकल्पं प्रदर्शितवान्।

पूर्वाध्यक्षः डॉ. हर्षमेहता, प्रान्तमन्त्री संजीवश्रीवास्तवः, सहमन्त्री अजय: आर्यः, पटियालाविभागसहसंयोजकः डॉ. ओमनदीपः, अन्ये च जनाः उपस्थितवन्तः। संस्कृतभारती पञ्जाबे संस्कृतभाषायाः प्रचाराय प्रसाराय च कृतसङ्कल्पमस्ति। सम्मेलनं सफलतापूर्वक सम्पन्नमभवत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button