पंजाबसंस्कृत भारती

पटियालानगरे शिवमन्दिरे प्रचलितस्य गीताजयन्त्याः कार्यक्रमस्य अभवत् भव्यसमापनम्

प्रेषक:- अजयकुमार-आर्य:। संस्कृतभारतीपंजाबप्रान्तपक्षतः पटियालानगरे गीताजयन्त्योपलक्ष्ये अर्बन-एस्टेट फेज़-1 मध्ये स्थिते शिवमन्दिरे प्रचलितस्य गीताजयन्त्याः कार्यक्रमस्य समापनमद्य शिवमन्दिरस्य समित्याः एवञ्च संस्कृतभारत्याः सहयोगेन अभवत् । कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन आगतैःअतिथिभिः संस्कृतभारतीप्रान्ताध्यक्षैः वीरेन्द्रवर्यैः च कृतम् । कार्यक्रमे मुख्यातिथिरूपेण कुरूक्षेत्रविश्वविद्यालयतः सेवानिवृत्तः प्रोफेसर, पूर्वकुलपतिश्च डॉ. मदनमोहनगोयलवर्यः, डॉ.नरेन्द्रकुमारशर्मणः (M.D) आयुर्वेदः एवञ्च पंजाबी-विश्वविद्यालयस्य सेवानिवृत्ताचार्यः डॉ. रविकुमारादय: उपस्थिताः आसन् । मुख्यातिथीनां परिचयम् अर्बन एस्टेट फेज़-1 मध्ये शिवमन्दिरस्यसमित्याः प्रधानः दीपचन्दः कारितवान् । अस्मिन्कार्यक्रमस्य प्रारम्भे गीताशिक्षणकेन्द्रस्य सर्वे साधकाः मिलित्वा गीतापारायणं कृतवन्तः । अनन्तरम् अर्बन एस्टेट फेज़-2 तः (M.D) आयुर्वेदधामस्य प्रमुखः डॉ. श्रीहरिप्रियः मुख्यशिक्षकरूपेण श्रीमद्भगवद्गीतायाः पारायणव्याख्याश्च कृतम्। मुख्यवक्तारूपेण डॉ. मदनमोहनगोयलवर्यः उक्तवान् यत् श्रीमद्भगवद्गीतां पठित्वा जनाः स्वकार्येषु सिद्धिप्राप्तुं शक्नुवन्ति । महोदयः स्वानुभवमपि उक्तम् । डॉ. नरेन्द्रकुमारशर्मणः भगवद्गीतायाः महत्त्वं विषये उक्तवान्। डॉ. रविमहोदयः श्रीमद्भगवद्गीतायाः सर्वे विषयाः सरलभाषायां सुमधुररीत्या स्वोद्बोधने उक्तम् । अस्मिन्कार्यक्रमे मुख्यातिथीनाम् उत्तरीयं दत्वा सम्मानं कृतम् एवञ्च पंजाबप्रान्तस्य विस्तारकान्‌ सम्मानं कृतम् । कार्यक्रमस्य मंचसंचालनं पटियाला जनपदस्य सम्पर्कप्रमुखः डॉ रविदत्तः कृतवान् । अस्मिन् कार्यक्रमे संस्कृतभारत्याः कार्यकर्तारः, सामाजिकजनाः, मन्दिरस्य समित्यजना: उपस्थिताः आसन् । कार्यक्रमे अशीति: जनाः उपस्थिताः आसन् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button