लघुकाश्यां नाभानगरे सम्भाषण-शिबिरम्

पंजाबप्रान्ते संस्कृतभारत्याः कार्यक्रमाः दिनं-दिनं प्रवर्धमानाः सन्ति। विशेषतः पटियालाविभागस्य नाभानगरे गर्तिरेषा अस्ति काचिदधिका तीव्रा । यत्र मासेसस्मिन्नैव जातं चतुर्णां सम्भाषणशिबिराणामायोजनम्। यस्मिन् तत्रत्याः कार्यकर्तारः सन्ति प्रशंसार्हाः। नाभानगरे एव विगतात् सितम्बरमासस्य दश दिनाङ्कात् सामाजिकेभ्यः आरब्धं नवीनमेकं सम्भाषणशिबिरम् । शिबिरमेतद् नगरस्य बठिण्डियाक्षेत्रान्तर्गते हनुमद्-मन्दिरे प्रचलन् अस्ति यत्र प्रतिदनं सांयकाले अष्टतः नववादनपर्यन्तं भवति एषा कक्षा । कक्षायां विंशत्यधिकसामाजिकेषु संस्कृतशिक्षणं प्राप्तुं नाभानगरस्य सामाजिकेषूत्साहः दर्शनीयः भवति । संस्कृतभारत्याः विस्तारक: मनीष: प्रचालितस्य शिबिरस्य संयोजकः अस्ति नाभानगरीयः श्रीभूपेशवंसलः । शिबिरेस्मिन् सह-शिक्षिकारूपेण भवति अर्शदीपवर्या। श्रीकान्तयुवीशर्मा, मन्दिरपुरोहितः श्रीमान् प्रकाशः आयोजकेषु मुख्यभूमिकायामुपस्थिताः आसन् ।