भारतीयज्ञानपरम्परा समस्त-जगतः कल्याणाय समर्पिता अस्ति,
भारतीय-दार्शनिक-अनुसन्धान- परिषन्नवदिल्ल्या: च कर्णप्रयागमहाविद्यालयस्य संस्कृतविभागस्य द्विदिवसीयराष्ट्रियसंगोष्ठी

उत्तराखण्डस्य चमोलीजनपदे डॉ. शिवानन्द-नौटियाल- राजकीय-स्नातकोत्तर-महाविद्यालये कर्णप्रयागे संस्कृतविभागेन च भारतीय-दार्शनिक-अनुसन्धान-परिषन्नवदिल्ल्या समाजराजनीतिदर्शनविषये व्याख्यानं आयोजितम् । २० फरवरी २०२५ इत्यस्मिन् दिनांके द्विदिवसीय-राष्ट्रीय-संगोष्ठ्याः शुभारम्भः सम्पन्नः। कार्यक्रमस्य आरम्भः सरस्वती-वन्दनया अभवत्।

उद्घाटनसत्रे समायोजितव्याख्याने मुख्य-अतिथि-रूपेण उच्च-शिक्षा-निदेशिका प्रो. अंजू-अग्रवाल-महोदया अवदत् यत् “भारतीय-ज्ञान-परम्परा अतीतकालात् एव समस्त-जगतः कल्याणाय समर्पिता अस्ति। अद्यतनकाले पुनः अस्याः मूल्यानां अन्वेषणं आवश्यकं वर्तते।”
विशिष्ट-अतिथि-रूपेण डॉ. डी. एस. राणा-महोदयः संगोष्ठ्याः आयोजनस्य निमित्तं महाविद्यालयं शुभाशंसां प्रदत्तवान्, एवं अवदत् यत् “भारतीय-संस्कृतेः आत्मा एवं धरोहरः एषा परम्परा अस्ति, यां ऋषि-मुनयः गभीर-अध्ययनेन अस्माकं प्रदत्तवन्तः। अस्माभिः एषा समृद्धि: संरक्षणीया तथा अस्या: उन्नयनाय अस्माकं भूमिका सुनिश्चितव्या।”
*भारतीय-आत्मा संस्कृत-भाषायाम् अधिष्ठिता-डा.विश्वेश:*
मुख्य-वक्तृरूपेण हेमवती-नन्दन-बहुगुण-गढ़वाल-केंद्रीय- विश्वविद्यालयात् आगतः डॉ.विश्वेश-कौशिक-महोदयः अवोचत् यत् “भारतीय-आत्मा संस्कृत-भाषायाम् अधिष्ठिता अस्ति। अस्यामेव समस्त-ज्ञान-विज्ञानं निहितं वर्तते। परं दुर्भाग्यं यत् अस्माकं निज-भाषा विस्मृता, एवं पाश्चात्य-अन्धानुकरणे एव प्रवृत्ताः स्मः। अद्य नासा-संस्थायां अपि भारतीय-ज्ञानस्य अनुसंधानं प्रचलति। अतः अस्माकं कर्तव्यं यत् अस्माकं ग्रन्थेभ्यः शिक्षणं कुर्यामः।” स्वीय-व्याख्याने डॉ. विश्वेश-महोदयः वेदात् नासापर्यन्तं समस्त विषयान् स्पष्टं प्रतिपादितवान्।
डॉ. पंकज-यादव-महोदयः भारतीय-भाषाणां परिप्रेक्ष्ये क्षेत्रीय-भाषाणां संवर्धनं महत्वपूर्णम् इति प्रतिपादितवान्। सः समाजस्य भाषा-प्रभावं विवेच्य अवोचत् यत् “विश्वात् अस्माभिः शिक्षणं करणीयं यत् कथं स्वसंस्कृतेः संरक्षणं करणीयम्।” विशेषतः हिब्रू-भाषायाः उदाहरणं दत्त्वा स्वमतं प्रस्तुतवान्।
डॉ. प्रवीण-मैठाणी-महोदयः वेदेषु मानवाधिकारस्य महत्त्वं प्रतिपाद्य उक्तवान् यत् “शीघ्रं वेदेषु प्रत्यावर्तनं करणीयम्।” प्रथम-सत्रस्य मुख्य-अतिथि: डॉ. डी. एस. राणा-महोदयः भारतीय-परम्परायाः वैज्ञानिक-दृष्ट्या कणाद-जैमिनि-आचार्ययोः उदाहरणं दत्त्वा वक्तव्यं कृतवान्।
*”पुरुषार्थ-चतुष्टयं अस्माकं वैश्विक-धरोहरः अस्ति”– प्रो.खाली*
महाविद्यालयस्य प्राचार्यः तथा कार्यक्रम-अध्यक्षः प्रो. वी. एन. खाली-महोदयः अवोचत् यत् “महाविद्यालये एवं प्रकारस्य आयोजनेषु आवश्यकता अस्ति। एषा संगोष्ठी भारतीय-ज्ञान-परम्परायाः तान् पक्षान् अस्माकं समक्षं नयति, यत् पूर्वं अज्ञातम् आसन्।” प्रो. खाली-महोदयः उत्तराखण्डे परिवार-ग्रामेषु ज्ञान-विज्ञानं, नैतिकतां, आत्मिकतां, अध्यात्मं च सहजतया दृष्टुं शक्यते इति अपि उक्तवान्। सः अवोचत् यत् “पुरुषार्थ-चतुष्टयं अस्माकं वैश्विक-धरोहरः अस्ति।”
कार्यक्रमस्य संचालनं डॉ. मदनलाल-शर्म-महोदयेन कृतम्। कार्यक्रमस्य समस्त-रूपरेखा कार्यक्रम-समन्वयकः डॉ. मृगांक-मलासी-महोदयेन निर्धारितम्।
अन्येऽपि विद्वांसः यथा— डॉ. एम. एस. कण्डारी, डॉ. रमेश-भट्ट:, डॉ. वी. आर. अण्थवाल:, डॉ. हरीश-रतूड़ी, डॉ. चन्द्रमोहन-जनस्वाण, श्री नेतराम, श्री नरेन्द्र-पंघाल, क्षिप्रादयः स्वीय-शोधपत्राणि पठितवन्तः।
संगोष्ठ्याः समापनं दिनाङ्के २१ फरवरी २०२५ इत्यस्मिन् भविष्यति। अस्मिन कार्यक्रमे डॉ. अखिलेश-कुकरेती, डॉ. वी. पी. भट्ट:, डॉ. कविता-पाठक:, श्रीमती पूनम:, डॉ. शालिनी-सैनी, श्रीमती स्वाति-सुंदरियालादयः उपस्थिता: आसन्।







