संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

राज्यस्य संस्कृतस्पर्धाः अद्भुताः, अवर्णनीयाः, आकर्षकाः च आसन्।

√ समापनसमारोहः संस्कृतजयघोषै: प्रतिध्वनितः।। न दूरं दिवसः यदा संस्कृतं सर्वेषाम् मुखे भविष्यति - "शास्त्री"।। √ आचार्यबालकृष्ण: प्रतिभागिनां कृते दत्तवान् लक्ष्याधिकं धनराशियोगदानं ।। √ श्रेष्ठनाटककलाकारेषु वरिष्ठवर्गे कुशाग्र: तथा तनस्विनी च कनिष्ठवर्गे तरुणशर्मा एवं दिव्या राज्यपुरस्कारेण सभाजिता: ।। √ उधमसिंहनगरं विजेता चलवैजयन्तिसम्मानेन च पौडीगढवाल: उपविजेता चलवैजयन्तिपुरस्कारेण अलंकृतौ ।।

।। “संस्कृतशिक्षामन्त्री धनसिंहरावतेन संस्कृतस्य कृते घोषणाः कृता:” ।।

√—-> प्रत्येकस्मिन् जनपदे संस्कृतग्रामः भविष्यति।
√—-> संस्कृतं प्राथमिकस्तरं यावत् आनयिष्यते।
√—->विश्वस्य २४७ विश्वविद्यालयानाम् संस्कृतविद्वत्-सम्मेलनं हरिद्वारे भविष्यति।
√—->संस्कृतस्य छात्राणां कृते निःशुल्कं पुस्तकानि, छात्रवृत्तिः च प्राप्स्यति।

हरिद्वारं। उत्तराखण्ड-संस्कृत-अकादमीहरिद्वारद्वारा महाजनभवने भूपतवालाहरिद्वारे द्विदिनात्मकाः राज्यस्तरीयाः संस्कृतछात्रप्रतियोगिता: आयोजिताः। यस्मिन् प्रास्ताविके उत्तराखण्डस्य संस्कृतभारत्याः प्रान्तीयसङ्गठनमन्त्री श्री गौरवशास्त्री उक्तवान् यत् संस्कृतभाषाकारणात् च संस्कृतप्रतियोगितानां कारणात् न दूरं दिवसः यदा सर्वेषां मुखे संस्कृतं भविष्यति। सर्वे संस्कृतभाषायां वक्तुं आरभन्ते।

समापनसमारोहे मदनकौशिकः अवदत् यत् अकादमीद्वारा संस्कृतस्य कृते यथाशक्ति प्रयत्नः क्रियते। अद्य सम्पूर्णे राज्ये उत्तराखण्डस्य संस्कृतछात्राणां प्रतिभा दृश्यते।

संस्कृतशिक्षामन्त्री श्री धनसिंह रावतः अवदत् यत् १३ जिनपदेषु संस्कृतग्रामाः निर्मीयन्ते। संस्कृतविषयं प्राथमिकस्तरं यावत् आनयिष्यते तथा च संस्कृतस्य छात्राणां कृते शोध-छात्राणां कृते शोध-छात्राणाम् अपि प्रदत्ता भविष्यति।तथा अपि विश्वस्य प्रायः २४७ विश्वविद्यालयानाम् एकां सम्मेलनं हरिद्वार-नगरे वैश्विकस्तरस्य आयोजनं भविष्यति इति उक्तवान् ।

अकादमी-सचिवः श्री शिवप्रसाद-खालीः अवदत् यत् कोरोना-पश्चात् संस्कृतस्य एतत् विशालं समागमं दृष्ट्वा संस्कृतस्य भविष्यम् उज्ज्वलम् इति भासते, उत्तराखण्डस्य दूरस्थेभ्यः क्षेत्रेभ्यः आगताः प्रत्येकः प्रतिभागी संस्कृतगीतानां, नृत्यस्य च पूर्णं लाभं गृहीतवान् । सः अवदत् यत् केवलं संस्कृते एव सामर्थ्यम् अस्ति यत् सर्वभाषाः शब्दान् व्युत्पादयितुं निर्मातुं च शक्नोति। संस्कृतभाषायां जगतः अवगमनविज्ञानम् अस्ति ।

राज्यस्तरस्य मन्त्रिमण्डलमन्त्री आदरणीय: मदनकौशिक:, शिक्षामन्त्री डॉ. धनसिंहरावत:, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः श्री दिनेशशास्त्री तथा कुलसचिव: श्री गिरीशकुमार: अवस्थी तथा अकादम्याः वित्ताधिकारी सतेन्द्रडबराल:, उत्तराखण्डस्य राज्यसङ्गठनमन्त्री श्री गौरवशास्त्री इत्यादयः राज्यस्तरस्य छात्राणां अभिनन्दनं कृतवन्तः सहैव समापनावसरे संस्कृतछात्रप्रतियोगितायां ३६ स्थानानि प्राप्तवद्भ्य: छात्रेभ्य: धनराशिसहितं प्रमाणपत्राणि वितरितानि।

नाटकस्य उत्तम-अभिनेतृषु वरिष्ठवर्गे कुशाग्र:, तनस्विनी, कनिष्ठवर्गे तरुणशर्मा, दिव्या च राज्यपुरस्कारं प्राप्तवन्त: । राज्यस्तरस्य सर्वोत्तमनाट्यप्रदर्शनाय उधमसिंहनगराय विजेताचलबैजन्तिपुरस्कारसम्मानेन पौडीजनपदाय च उपविजेता चलबैजन्तिपुरस्कारेण पुरस्कृतः। हरीश गुरुरानी, ​​गिरीशतिवारी, रोशन बलूनी, नवीन जसोला, कुलदीप मैन्दोला, भगवती देवराडी रोशनगौड: इत्यादिभि: विभिन्नकार्यक्रमाणां संचालनं समन्वयनं कृतं ।
कनिष्ठ-वरिष्ठवर्गस्य रङ्गिणे संस्कृतकार्यक्रमे आगताः प्रतिभागिनः, शिक्षकाः, प्रेक्षकाः च अद्भुतं भावम् अवाप्तवन्तः यत् अवर्णनीयं, अद्भुतं, आकर्षकं च आसीत् । राज्यसंयोजकः हरीशगुरुरानी तथा सहसंयोजकः किशोरीलालतूडी तथा अकादम्याः सर्वे कर्मचारिण: एतासां प्रतियोगितानां आयोजने स्वस्य सर्वोत्तमदायित्वं निर्वहणार्थं दिवारात्रौ कार्यं कृतवन्तः।

राज्यस्तरस्य संस्कृतछात्रप्रतियोगितासु वरिष्ठवर्गे
२०,००० रुप्यकपुरस्कारधनेन संस्कृतनाटके
पौडीगढ़वालतः केन्द्रीयसंस्कृतविश्वविद्यालयः श्री रघुनाथकीर्तिपरिसरः देवप्रयागः १७९ अंकैः प्रथमः, उधमसिंहनगरतः डायनेस्टी-मॉडर्न-गुरुकुल-अकादमी छिनकी -फार्म खटीमा १५००० रुप्यकैः द्वितीयः, सनातनधर्म-इण्टर- कॉलेज, बन्नू, रेसकोर्स-देहरादूनं १०००० रुप्यकैः सह तृतीयस्थाने स्थितवान्।

संस्कृतसमूहगायने नैनीतालहल्द्वानीतः केवीएमपब्लिकविद्यालय: प्रथम:, उधमसिंहनगरात् डायनेस्टी- मॉडर्न-गुरुकुलः छिनकी फार्म्, खटीमा द्वितीयं, पौड़ीत: रा.इ.का.पीपली तृतीयं स्थानं प्राप्तवन्त:।संस्कृतसमूहनृत्ये उधमसिंहनगरत: डायनेस्टीमॉडर्नगुरुकुलं, एकेडमी छिनकी फार्म् खटीमात: प्रथमस्थाने पतंजलिविश्वविद्यालयहरिद्वारत: द्वितीये एवं आर्यकन्या-इंटर- कॉलेज-हवालबाग-अल्मोड़ात: तृतीये आसन् ।संस्कृत- आशुभाषणे हरिद्वारे शुभ्रांश मिश्रा, श्री ऋषिसंस्कृत- महाविद्यालयखड़खड़ी प्रथमस्थाने यशशंकरमिश्र: श्री दर्शनसंस्कृतमहाविद्यालय: मुनीकीरेती द्वितीयस्थाने च गगनसैनी श्रीमद्दयानंद-आर्ष-ज्योर्तिमठ- गुरुकुल-पौन्धादेहरादूनं तृतीये आसन्।

संस्कृतवाद-विवादे श्रेष्ठा च माधुरी, केन्द्रीयसंस्कृत -विश्वविद्यालय:, देवप्रयाग:, पौड़ीगढ़वालत: प्रथमस्थाने अंजली परगांई च हेमा, राजकीय-इंटर-कॉलेज,-पतलोट- नैनीतालत: द्वितीयस्थाने तथा अरूणकुमार: च विश्वमित्रं, श्रीमद्दयानंद-आर्ष-ज्योर्तिमठ-पौंधा देहरादूनत: तृतीयस्थाने आसन्।श्लोकोच्चारणे रक्षिता पाण्डेय:, अटलोत्कृष्टराजकीय- इण्टर- कालेज-चम्पावतत: प्रथमे, नाजिया राधेहरि- रा०स्ना०महा० वि०, काशीपुरत: द्वितीये, कोमलशर्मा, केन्द्रीयसंस्कृत- विश्वविद्यालय- देवप्रयागपौड़ीगढ़वालत: तृतीये ।

कनिष्ठवर्गे संस्कृतनाटके ऊधमसिंहनगरत: डायनेस्टी-मार्डन- गुरुकुल-एकेडमी-छिनकी-फार्म-खटीमात: प्रथमे टिहरीगढ़वालत: श्री दर्शनसंस्कृतमहाविद्यालय:, मुनीकीरेती द्वितीये देहरादूनत: राजकीय-इण्टर-कालेज-पटेलनगरं तृतीये आसन्।संस्कृतसमूहगाने ऊधमसिंहनगरे डायनेस्टी-मार्डन- गुरुकुल- एकेडमी-छिनकी-फार्म-खटीमात: प्रथमे, अटलोत्कृष्टराजकीय- इण्टर-कालेज-रुद्रप्रयागत: द्वितीये ,चम्पावतत: विजन-पब्लिक- स्कूल-टनकपुरं तृतीये आसन्।संस्कृतसमूहनृत्ये देहरादूनत: समरवैली-विद्यालय: प्रथमे
टिहरीगढ़वालत: राजीवगांधीनवोदयविद्यालयदेवलधारत: द्वितीये चमोलीत: राजकीयबालिका-इंटर-कॉलेज- नारायणबगड़: तृतीये सम्प्राप्ता: । संस्कृताशुभाषणे अल्मोड़ात: ललितमोहनतिवारी, श्रीरामसंस्कृतविद्यापीठ- रानीखेतताड़ीखेतत: प्रथमे पौड़ीगढ़वालत: अदितिरावत:, सेन्टजोसेफकॉन्वेन्टस्कूल- कोटद्वारत: द्वितीये टिहरीगढ़वालत: वंशभट्ट:, श्री दर्शनसंस्कृत -महाविद्यालयमुनीकीरेतीत: तृतीये विराजिता: ।

संस्कृतवाद-विवादे चन्द्रत्रिपाठी व गुड्डुरुवाली, राजकीय-इण्टर -कॉलेज, पतलोटनैनीतालत: प्रथमे देहरादूनत:
प्रांजल: च हर्षित:, गुरुकुलपौंधासहसपुरत: द्वितीये टिहरी गढ़वालत: आदित्यबिजल्वाण: व आयुषसिलस्वाल:, दर्शनमहाविद्यालयमुनीकीरेतीत: तृतीये आसन्। श्लोकोच्चारणे गौरवशर्मा, श्री ब्रह्मचारीरामकृष्णसंस्कृत- विद्यालय: हरिद्वार: प्रथमे टिहरीगढ़वालत: आदित्यराजपाण्डेय: श्री दर्शनसंस्कृतमहाविद्यालयमुनकीरेतीत: द्वितीये प्रियांशुपाठक:, विवेकानंद-इंटर-कॉलेज-रानीधारा- हवालबाग-अल्मोड़ात: तृतीये सम्प्राप्ता: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button