उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतभारतीदेहरादूनेन कृतं संस्कृतसम्भाषणशिबिरस्य उद्घाटनं

✓ संस्कृतं विना भारतीयसंस्कृतेः कल्पना व्यर्थम्- "प्रदीपसेमवाल:" ।। ✓ संस्कृतभाषा अवश्यं शिक्षितव्या, जीवनात् मृत्युपर्यन्तं अग्रे गन्तुं साहाय्यं करोति- "राजेन्द्ररमोला"

देहरादून।सोमवासरे संस्कृतभारतीदेहरादूनेन नथुवावालानगरस्य सरस्वतीविद्यामन्दिरस्य दशदिवसीयस्य सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनं कृतम्, मुख्यातिथिः श्री राजेन्द्ररमोला, (विद्यालयप्रबन्धकः), मुख्यवक्ता डॉ. प्रदीपसेमवालः ( संस्कृतभारतीजनपदसंयोजक:) विशेषातिथि: श्री अनूपसेमवाल: कार्यक्रमाध्यक्ष: श्री ललितबुडाकोटी (अध्यक्ष:, सरस्वतीविद्यामन्दिरनथुवावालात:) तथा श्री सुरेन्द्रचौहान: एवं विद्यालयस्य प्राचार्य: श्री शिशुपालसिंहरावत: दीपं प्रज्ज्वाल्य कार्यक्रमस्य उद्घाटनं कृतवन्त: ।

कार्यक्रमे मुख्यातिथिः राजेन्द्ररमोला अवदत् यत् अस्माभिः संस्कृतभाषा अवश्यं शिक्षितव्या, जीवनात् मृत्युपर्यन्तं अग्रे गन्तुं साहाय्यं करोति।

कार्यक्रमे मुख्यवक्ता डॉ. प्रदीपसेमवालः अवदत् यत् संस्कृतभाषा एव अस्माकं देशस्य संस्कृतेः आधारः अस्ति। संस्कृतं विना भारतीयसंस्कृतेः कल्पना व्यर्थम्। संस्कृतभारती व्याख्यानतः शास्त्रपर्यन्तं शिक्षणकार्यं कुर्वन् अस्ति। शिबिरे च वृद्धजनाः संस्कृतसम्भाषणं शिक्षितुं अवसरं प्राप्नुवन्ति। विशेषातिथिः अनूपसेमवालः जनान् संस्कृतं शिक्षितुं आह्वानं कृतवान् । कार्यक्रमस्य अध्यक्षः ललितबुडाकोटिमहोदयः संस्कृतभारत्याः सर्वान् कार्यक्रमान् संस्कृतस्य प्रचारार्थं समर्थनं कृतवान्, तथा च संस्था संस्कृतभाषायाः समर्थनं काले काले निरन्तरं करिष्यति इति शिबिरस्य सहशिक्षकः, संस्कृतभारत्याः विभागसमन्वयकः च इति उक्तवान् ।

कार्यक्रमे सहशिक्षक: श्री नागेन्द्रव्यास: प्रास्ताविकम् उक्तवान्। प्राचार्य: श्री रावत: समेषां धन्यवादं, धीरजबिष्ट: स्वागतगीतं, तथा विद्यालयछात्रा: संस्कृति: एवं प्रियंका सरस्वतीवंदनां प्रस्तुतवन्त: तथा च कार्यक्रमस्य सफलसंचालनं शिविरशिक्षक: डॉ. आनंदजोशी कृतवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button