संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

प्रतिदिनं घण्टाद्वयं दत्त्वा दसदिवसपर्यन्तं सामान्यजन: अपि संस्कृतेन वक्तुं शक्नोति —“प्रान्ताध्यक्षा श्रीमतीजानकीत्रिपाठी”

गौरांगशिक्षामन्दिरनारायणपुरलालपुररुद्रपुरे शिबिरोद्घाटनम्।

• २३-७-२०२३ दिनाङ्कत:०१-०८-२०२३ दिनाङ्कं यावत् संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरं संजायते।

रुद्रपुर।संस्कृतभारत्या: संस्कृतसम्भाषणजनान्दोलनं सर्वत्र जायमानम् अस्ति । अस्मिन्प्रचारक्रमे संस्कृतभारती-उत्तराञ्चलन्यासस्य ऊधमसिंहनगरजनपदस्यान्तर्गतं
गौरांगशिक्षामन्दिरनारायणपुरलालपुरे रुद्रपुरे दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनं २३-७-२०२३ दिनाङ्के अभवत्।

मार्गदर्शनं कुर्वन्ती प्रान्ताध्यक्षा श्रीमतीजानकीत्रिपाठी उक्तवती यत् प्रतिदिनं घण्टाद्वयं दत्त्वा दसदिवसपर्यन्तं सामान्यजन: अपि संस्कृतेन वक्तुं शक्नोति यदि वयं प्रतिदिनं संस्कृतेन वदाम: चेत् तु समाजे अपि जना: संस्कृतेन वक्तुं समर्था: भवन्ति। संस्कृतभारत्या: सम्भाषणकार्यविषये श्रीजगदीशपाण्डेयवर्य: प्रास्ताविकं प्रोक्तवान् ।

अस्य शिविबिरस्योद्घाटनावासरे विद्यालयस्यास्य प्रधानाचार्य: सर्वे शिक्षका:, संस्कृतभारत्या: प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी महोदया , नैनीतालविभागसंयोजक: डा०जगदीशचन्द्रपाण्डेय: , ऊधमसिंहनगरजनपदस्य शिक्षणप्रमुख: अंकितपाण्डेय: आदय: कार्यकर्तार: उपस्थिता: आसन्। इदं शिबिरम् ०१-०८-२०२३ दिनाङ्कं यावत् प्रचलिष्यति। शिबिरशिक्षकः – श्रीनवीनचन्द्रपाण्डेय: सर्वेषां कृते संस्कृतसम्भाषणं शिक्षयन् अस्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button