संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

श्रीकल्याणिकावेद-वेदाङ्ग-संस्कृतविद्यापीठे अभवत् सम्भाषणशिबिरसम्पूर्ति:

मुख्यवक्तृत्वे- संस्कृतभारत्याः प्रान्ततसंघटनमन्त्री श्रीमान् गौरवशास्त्रीमहोदय: सम्बोधितवान् शिबिरं

अल्मोड़ा। श्रीकल्याणिकावेद-वेदाङ्ग-संस्कृतविद्यापीठम्, डोल-आश्रमः अल्मोड़ा” इत्यस्मिन् स्थाने दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य सम्पूर्तिकार्यक्रमः 23-07-2023 दिनाङ्के अभवत्।
कार्यक्रमस्य सञ्चालनं शिबिरशिक्षकः श्रीसंजयभट्टमहोदयेन कृतम् । अस्मिन् कार्यक्रमे मुख्यवक्तृत्वे- संस्कृतभारत्याः प्रांतसंघटनमन्त्री श्रीमान् गौरवशास्त्रीमहोदयः आसीत् तथा मुख्यातिथिः- राष्ट्रीय-स्वयं-सेवकसंघस्य विभागप्रचारकः श्रीमान् इन्द्रमोहनमहोदय: एवं विशिष्टातिथिः- खण्ड-शिक्षा-अधिकारी सुश्री प्रेमा बिष्ट-महोदया तथा कार्यक्रमाध्यक्षाः आश्रमस्य प्रबंधकाः कपिलेश्वरानन्दस्वामीवर्या: आसन् तथा प्रास्ताविकं भाषणं संस्कृतभारत्याः प्रान्तप्रचारप्रमुखः श्रीजगदीशजोशीमहोदयेन कृतम्।

अन्येषु अल्मोडाजनपद-अध्यक्षः श्री निर्मलपन्तमहोदयः, हल्द्वानीमहानगरसंयोजकः श्रीकैलाशचन्द्रसन्वालमहोदयः, भा.ज.पा. जिलामन्त्री श्रीमान् सञ्जयडालाकोटी महोदय: , पूर्वमण्डल-उपाध्यक्षः श्रीमान् दिनेशवर्य: एवं अस्यैव विद्यालयस्य अध्यापकाः अध्यापिका: सर्वेपि छात्राश्च उपस्थिता: आसन् तथा अन्ते श्रीकल्याणिकावेद-वेदाङ्ग- संस्कृतविद्यापीठस्य प्रधानाचार्याः विवेकानन्दस्वामीमहोदयाः धन्यवादज्ञापनेन शान्तिमन्त्रेण च कार्यक्रमस्य सम्पूर्तिं कृतवन्त: ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button