संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरात

Online संस्कृतशिक्षणम् इत्यनेन आयोजिताया: ओनलाईन-संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता

प्रतियोगिताया: पुरस्कारप्रायोजक: हिमाचलप्रदेशात् आचार्यरोशन: (शास्त्री-अध्यापक:), आयोजकश्च गुजरातत: राष्ट्रीय-संस्कृत-प्रचारक: जगदीशडाभी स्त: ।

वार्ताहर: – डॉ. नरेन्द्रराणा ।
अहमदाबाद । जुलाईमासस्य 23-दिनाङ्के रविवासरे Online संस्कृतशिक्षणम् इत्यनेन आयोजिताया: ऑनलाइन-संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता । प्रतियोगितायामस्यां राजस्थानत: योगेन्द्रसिंह: प्रथमं स्थानं प्राप्तवान् । द्वितीयं स्थानं मध्यप्रदेशत: सत्यममिश्र:, तृतीयस्थाने उत्तरप्रदेशत: जय प्रकाश: वर्तन्ते । प्रतियोगिताया: पुरस्कारप्रायोजक: हिमाचलप्रदेशात् आचार्यरोशन: (शास्त्री अध्यापक:), आयोजकश्च गुजरातत: राष्ट्रीय-संस्कृत-प्रचारक: जगदीशडाभी आस्ताम् ।

ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणम् इत्यनेन आमुखपटलसमूहेन प्रतिसप्ताहे अन्तर्जालमाध्यमेन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते । पुरस्कार-प्रायोजक: हिमाचलप्रदेशात् आचार्यरोशन: (शास्त्री-अध्यापक:) सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति। तेन सह उत्तराखंडात् संस्कृत-रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दास्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button