संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डकण्वनगरीकोटद्वार

‘गृहे गृहे संस्कृतम्’ योजनाद्वारा बालोऽपि संस्कृतभाषी- विनय- श्रीवास्तव:

उत्तरप्रदेशे अभवत् सरलसंस्कृतभाषाशिक्षणकेन्द्राणां सामूहिकम् उद्घाटनं

वार्ताहरः- शशिकान्त:। उत्तरप्रदेशस्य संस्कृतसंस्थानेन चालितस्य गृहे-गृहे संस्कृत योजनायाः अन्तर्गतं राज्यस्य सर्वेषु मण्डलेषु सरलसंस्कृतभाषाशिक्षणकेन्द्राणां सामूहिकम् उद्घाटनं गूगल मीट् मार्गेण कृतम् । सर्वकेन्द्राणि सम्बोधयन् संस्थायाः निदेशकः सत्रस्य अध्यक्षः विनयश्रीवास्तवः अवदत् यत् एषा योजना अश्वमेधयज्ञ इव अस्ति यस्मिन् वयं सर्वे संस्कृतसैनिकाः स्वसहकार्यस्य त्यागं कुर्मः। उत्तरप्रदेशसंस्कृतसंस्थानं संस्कृतप्रशिक्षकाणां साहाय्येन गृहे गृहे संस्कृतकार्ययोजनायाः माध्यमेन संस्कृतभाषां गृहं प्रति नेतुम् पुण्यकार्यं कुर्वत् अस्ति। भाषा विभाग उ.प्र. सर्वकारेण, संस्कृतसंस्थायाः च सहकारेण, संस्कृतस्य प्रचारार्थं, नवशिक्षकाणां प्रशिक्षणेन, तेषां सहकारेण संस्कृतभाषाशिक्षणवर्गाणां आयोजनं क्रियते। अस्माभिः संस्थायाः संस्कृतहेल्प् डेस्क पोर्टल् अपि निर्मीयते। तथैव अन्याः अपि बहवः योजनाः संस्थायाः चालिताः सन्ति ।
प्रशिक्षणप्रमुखस्य सुधिष्ठामिश्रस्य मार्गदर्शने सर्वेषां ऑनलाइनवर्गाणां प्रशिक्षकाणां पूर्णसहकार्यं भविष्यति। योजना सर्वेक्षिका डॉ. चन्द्रकला सर्वेषां शिक्षकाणां केन्द्रप्रमुखानाञ्च उत्साहं वर्धयन्ती कृतज्ञतां प्रकटितवती यत् भवतां सहकारेण एषा सर्वराज्यव्यापी योजना कार्यान्वितुं गच्छति, योजनायाः सम्बद्धः प्रत्येकं व्यक्तिः महत्त्वपूर्णास्ति। इस क्रमेऽस्मिन् संस्थानपदाधिकारिणः प्रशासनिक अधिकारी डॉ. दिनेश मिश्रा, डॉ. जगदानंद झा, भगवान सिंह इत्यादिभिः स्वविचाराः प्रकटिताः। ऑनलाइन कार्यक्रमस्य संचालनं प्रशिक्षक दीपक पाण्डेय: कृतवान्, संस्था गीतिका प्रशिक्षिका पूजा द्वारा कृता। योजनासंयोजकः अनिलगौतमः परिचयस्य पाठं कुर्वन् कार्यक्रमे उपस्थितानां सर्वेषां जनानां स्वागतं कृतवान् । मुख्य समन्वयक धीरज मैठाणी समग्र योजनाया: वृत्तकथनं कृतवान् । प्रशिक्षणप्रमुखस्य सुधिष्ठ मिश्रस्य मार्गदर्शनेन जुलैमासे ६७ केन्द्राणां उद्घाटनं क्रियते, येषु २००० छात्राणां शिक्षणं भविष्यति। अस्य कार्यस्य अधिकवेगः जिलासमन्वयकानां माध्यमेन दीयते। राधा शर्मा द्वारा तकनीकी नियन्त्रणं कृतमासीत्। दिव्यारंजन, राधाशर्मा, गणेशदत्तद्वीवेदी, स्तुतिगोस्वामी एवं सहयोगी सवितमौर्य, महेन्द्रमिश्र, पूजवाजपेयी, अजयकुमार इत्यादयः सर्वे समन्वयकसमूहे सन्ति। ऑनलाइन कक्षाप्रशिक्षक शशिकान्त: आश्वासनं प्रदत्तं यत् गाजियाबाद जनपदे सञ्चालित केन्द्रस्य सहायतार्थं वयं सर्वदा उद्यताः भविष्यामः । पुण्यकार्यमिदं सर्वदा लोकहिताय एव अतः महतीं गतिं प्राप्य एषा योजना जगति वर्धमाना भवेत् ।
प्रशिक्षिका निधि मिश्रा शान्तिमन्त्रेण कार्यक्रमस्य समापनम् अकरोत् । कार्यक्रमे सर्वेषां ऑनलाइनवर्गाणां प्रशिक्षकाः, केन्द्रप्रमुखाः कर्मचारिभिः सह, शिक्षिकाः, केन्द्रनिदेशकशिक्षकाः च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button