संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतसम्भाषणशिविरेण समाज: अपि संस्कृतेन वक्तुं शक्नोति। —–“-डा.प्रकाशपन्त:”

उत्तराखण्ड। संस्कृतभारत्या: हरिद्वारे जायमाने प्रशिक्षणवर्गे डा.प्रकाशपन्त: संस्कृताभ्यासिनां मार्गदर्शनं कृतवान् । श्रीपन्त: उत्तराखण्डसंस्कृतविश्वविद्यालये शिक्षाशास्त्रविभागे सहाकाचार्य: वर्तते। तै: सम्भाषणशिविरवैशिष्ट्यमधिकृत्य कथितं यत् संस्कृतं सर्वेषां संस्कृतं सर्वत्र । तदर्थं शिविरं चालनीयं । तदर्थं शिक्षकाणां प्रशिक्षकाणां शिक्षणम् आवश्यकं। वयं कुत्रापि शिविराणाम् आयोजनं भवेत् । सर्वेषां कृते अस्माभि: संस्कृतसम्भाषणं करणीयं। तत्र कोपि वर्गभेद: नास्ति। वयम् अत्र हिन्दव: सोदरा: । संस्कृतभाषा वर्गजातिभेदं निवारयति एकतां दर्शयति। सर्वविधव्यवसायिन: संस्कृतं वक्तुं शक्नुवन्ति। सर्वविधधर्मावलम्बिजनानां कृते सम्भाषणम् आवश्यकं। संस्कृतसम्भिषणशिविरे प्रत्यक्षरुपेण पाठ्यते च वैज्ञानिकपद्धत्या पाठ्यते , संस्कृतभारत्या: विशिष्टा शैली च विशिष्टा विधि: दृश्यश्रव्यमाध्यमेन भवति । विद्यालयेषु एकैककक्षाया: कृते सर्वकारेण निश्चितपाठ्यक्रमेण यथा पाठ्यते परञ्च संस्कृतभारत्या: सरलसंस्कृतसम्भाषणशिविरे सर्वेषां प्रवेश: भवति। सर्वेषां कृते एकसमान: पाठ्यक्रम: सम्भाषणाय विद्यते। दशदिनात्मकशिविरे घण्टाद्वयाभ्यन्तरे कोपि जन: संस्कृतसम्भाषणे समर्थ: भवितुं शक्नोति। सम्भाषणशिविरे संस्कृतेन व्यवहार: भवति । शिक्षणं सर्वदा संस्कृतेन भवति।।
शिक्षणाकर्षणाय शिक्षक: गीतं कथां सुभाषितं चापि श्रावयति।

शिक्षकत्वेन भाव्यं चेत् सम्भाषणबिन्दूनां वाक्यविनिर्माणे काचित् विशिष्टा योग्यता स्यात् । श्रीपन्तेन उक्तं यत् अहं शिक्षणाभ्यासे स्वस्य सिद्धतायै दर्पणं संस्थाप्य घण्टाद्वयम् अभ्यासं कृतवान् । एतेन अभ्यासेन व्यक्तित्वविकास: भवति। अत: सर्वै: शिक्षणाय यतनीयं। अन्ते महोदयेन स्वरचितश्लोकमाध्यमेन प्रशिक्षकाणां कृते शिविराष्टकं शिविरसञ्चालनाय प्रोक्तं।

अस्मिन्नवसरे आदिवसे शिक्षणं कारयन्त: शिक्षका: व्यवस्थापका: गौरवशास्त्री , योगेशविद्यार्थी, नरेन्द्रभागीरथी , श्रीप्रभाकर: , रक्षिता, राधा , सचिन:, शशिकान्त: , अजय: श्रीगिरीशतिवारी, जगदीशजोशी , लक्ष्मण: , कुलदीपमैन्दोला लक्ष्मीनारायण:, हरीश: , सन्दीपशर्मा च मार्गदर्शकेषु श्रीप्रेमचन्द्रशास्त्री, डा.अरविन्दनारायणमिश्र: मोहरसिंहमीणा,
आदय: प्रशिक्षणार्थिनां प्रोत्साहनं कुर्वन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button