संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार

संस्कृतकारणात् सम्पूर्णे जगति वसुधैव कुटुम्बकम् इति भावः विकसितोभवत् —“कुलपति: प्रो.दिनेशचन्द्रशास्त्री”

राष्ट्ररक्षणाय पाणौ सायकं राम: इव आवश्यकं -"डा.अरविन्दतिवारी"

• कस्यापि कार्यक्रमस्य पूर्वयोजना आवश्यकी । शिवाजी योजनाकारणेन स्वशासनं स्थापितवान् ।
“अखिलभारतीयप्रचारप्रमुख: श्रीशिरीषमहोदय:” ।

।उत्तराखण्ड। संस्कृतभारती-पश्चिमी-उत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्गे बौद्धिकसत्रं रामायणविषयमधिकृत्य चतुर्थदिवसे डा.अरविन्दतिवारीवर्य: संस्कृतवाङ्मयस्य आदिग्रन्थं विवर्णयन् रामस्य आदर्शभूतगौरवमयीं संस्कृतिं वर्णितवान् । स : उक्तवान् यत् रामस्य निष्ठा स्वस्य प्रजाया: सेवा आसीत् । स: सेवाकारणात् मर्यादाकारणात् वीरताकारणात् मर्यादापुरुषोत्तम: अभवत्। स: एव लक्ष्मणम् उक्तवान् यत् जननीजन्मभूमिश्च स्वर्गादपि गरीयसि । स: उक्तवान् यत् अस्माकं गौरवमय: इतिहास: आक्रमणकारिणै: नष्टीकृत: । पन्तु वयं पुन: रामस्य चरित्रं संस्मरन् रामराज्यं पुन: आनयाम: । एकं एकं संघटितं कृत्वा संस्कृतसेनां वानरसेनाया: इव निर्मापयाम: । पुन: विश्वे संस्कृतं प्रसार्य वसुधैवकुटुम्बकम् चरितार्थं कुर्म: । राम: एव विग्रवान् धर्म: । तिवारीवर्येण कथितं यत् रामायणपात्रसदृशम् अस्माकं जीवने सच्चरित्रमागच्छेत् । रावणसदृशमस्माकं जीवनं न भवेत् । राष्ट्ररक्षणाय पाणौ सायकं राम: इव आवश्यकं । देशस्य एकात्मता भक्तिभावना अस्माकं शबरीवत् अवश्यं भवेत् । हनुमत्सदृशं निशादसदृशं साहाय्यं सत्यपथे अवश्यं भवेत् ।

उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः श्रीदिनेशचन्द्रशास्त्रीमहोदयः संस्कृतभारती- -पश्चिमोत्तरप्रदेशक्षेत्रस्य १४ दिवसीयं प्रशिक्षणवर्गं सम्बोधयन् उक्तवान् यत् संस्कृतम् अस्य देशस्य संस्कृतिः अस्ति, संस्कृतं समाजे व्यावहारिकरूपेण आनेतुं संस्कृतभारती प्रयासरता अस्ति।श, येन सर्वे जनाः संस्कृतेन वार्तालापं कर्तुं शक्नुवन्ति, अतः संस्कृतसम्भाषणस्य महती आवश्यकता वर्तते, संस्कृतकारणात् सम्पूर्णे जगति वासुधैव कुटुम्बकम् इति भावः विकसितोभवत्

दिनाङ्क- ०१-०६-२३ तः प्रचलति प्रशिक्षणवर्गे ध्यानस्य योगाभ्यासस्य च आरम्भेण सह वार्तालापकार्यं रात्रौ यावत् प्रचलति। प्रभाकरमहोदयः, वर्गशिक्षणप्रमुख:, प्रशिक्षार्थिनां मार्गदर्शनं करोति। प्रातः त्रयः सत्राः अपराह्णे च त्रयः सत्राः इत्यनुसारं प्रशिक्षुभ्यः वाक्शिक्षणस्य कौशलवर्धनं प्रदत्तं भवति। गिरीशतिवारी, रोशनगौड़:, कुलदीपमैन्दोला, वेदमित्र:, सचिन:, हरीश:, जगदीश:, रक्षा, राधा, संदीप:, ज्योतिप्रकाश: आदय: शिक्षका: शिक्षणकौशलविकासाय कार्यं कुर्वन्त: सन्ति।

संस्कृतभारत्याः आवासीयवर्गे उत्तराखण्डप्रान्तस्य मेरठप्रान्तस्य व्रजप्रान्तस्य विभिन्नस्तरस्य विभिन्नाः पुरुषाः महिलाः च भागं गृह्णन्ति, सम्प्रति गुरुकुलकाङ्गरीविश्वविद्यालयस्य विद्यालयपरिसरस्य ४० प्रशिक्षणार्थिन: सम्भाषणशिक्षणे प्रशिक्षिता: भवन्ति।

संस्कृतभारत्याः कार्याणां योजनायाः विषये अखिलभारतीयप्रचारप्रमुख: श्रीशिरीषमहोदय: उक्तवान् यत् कस्यापि कार्यक्रमस्य निर्वहणार्थं पूर्वयोजना आवश्यकी अस्ति, अस्य कृते जनसम्पर्कः अपि आवश्यकः अस्ति, तदा एव वयं समाजे संस्कृतस्य स्थापनां कर्तुं शक्नुमः। स: उक्तवान् यत् शिवाजी योजनाकारणेन स्वशासनं स्थापितवान् । औरंगजेबं स: नाशितवान्। वयं कामपि योजनां स्वीकृत्य कार्यं कुर्म: । प्रचारप्रमुखेण उक्तं यत् वर्गशिक्षणे प्रात: आरभ्य रात्रिपर्यन्तं योजना करणीया ।

प्रचलितसंस्कृतप्रशिक्षणशिबिरे व्रजप्रान्तस्य संगठनमन्त्री नरेन्द्र भागीरथी, मेरठप्रान्तस्य दक्षिणमन्त्री योगेशविद्यार्थी, उत्तराञ्चलप्रान्तस्य संगठनमन्त्री गौरवशास्त्री, संस्कृतभारती उत्तराञ्चलस्य न्यासी प्रेमचन्द्रशास्त्री, पश्चिमोत्तरप्रदेशक्षेत्रस्य संयोजकः च, प्रदेशाध्यक्षा श्रीमती जानकी त्रिपाठी आदय: संस्कृतभारत्याः वरिष्ठमार्गदर्शकाः प्रशिक्षार्थिन् प्रतिदिनं प्रेरयन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button