संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

संस्कृतस्नातकोत्तरछात्रा दीपांशी स्वर्णपदकेन सम्मानिता

वार्ताहर:-शशिकान्तः।
चौधरीचरणसिंहविश्वविद्यालयस्य अन्तर्गतं परिसरे अध्ययनं कुर्वती दीपांशी त्यागी नामका छात्रा संस्कृतविषयेण सह स्नातकोत्तरे ८६ प्रतिशतं अंकं प्राप्य स्वर्णपदकं प्राप्तवती । सा कुलपतिस्वर्णपदकेन विशेषयोग्यप्रमाणपत्रेण च पुरस्कृता ।

संस्कृतक्षेत्रे तस्याः उपलब्धिः तस्याः अथकपरिश्रमस्य परिणामः एव । अनेन तस्य परिवारे रहदराग्रामे च सुखस्य वातावरणं निर्मितम् अस्ति । अस्मिन् अवसरे पिता श्यामनारायण त्यागी माता ममता त्यागी च स्वपुत्रीं मिष्टान्नं भोजयित्वा हर्षेण स्वागतं कृतवन्तौ । एतस्मात् भाविछात्रा: पुत्र्य: च प्रेरयिष्यन्ति। स्वस्य भविष्यस्य लक्ष्यस्य वर्णनं कुर्वन्ती सा अवदत् यत् तस्याः यात्रा अत्रैव न स्थगयिष्यति किन्तु सा विद्यावारिधिं (पी.एच्.डी.) कृत्वा संस्कृतक्षेत्रे अमूल्यं योगदानं दातुम् इच्छति।

अन्ते सः सर्वसहपाठिभ्यः, शिक्षकेभ्यः विशेषतया च संस्कृतभारती सङ्घटनाय धन्यवादं दत्तवती यत् परीक्षासु संस्कृतभाषायां लेखने वक्तुं चापि तस्याः साहाय्यं कृतवती। भविष्ये च संस्कृतभारत्या सह सङ्गतिं कृत्वा संस्कृतस्य प्रचारस्य इच्छां प्रकटितवती।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button