संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार

छात्रसंसद: एवं कन्याभारत्या: उद्घाटनं कोषागारवित्तप्रबन्धकेन श्रीभवेशकुमारेण कृतं

विद्यामन्दिरे छात्रसंसदि विभिन्नविभागानाम् आवंटनं

• प्रधानमंत्रीपदे अभिषेकरावत:, सेनापतिपदे सक्षमजुयाल:

वार्ताप्रेषक:-रोहितबलोदी।कोटद्वार। छात्रसंसद: एव कन्याभारत्या: शपथग्रहणकार्यक्रमस्य आयोजनम् रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेज- -जानकीनगरकोटद्वारे निष्पन्नोभूत्। कार्यक्रमस्य उद्घाटनं भारतीय-स्टेट-बैंक इत्यस्य मुख्यशाखाकोटद्वारप्रबन्धक: श्रीभवेशकुमार:, मुख्यातिथि: प्रधानाचार्य: रोहिताग्रवालसरस्वतीविद्यामन्दिरत: श्री कुंजबिहारीभट्ट: , विद्यालयस्य प्रधानाचार्य: मनोजकुकरेती, प्रबंधक: राजेन्द्रजखमोला एवं उपाध्यक्षा मीनाक्षीशर्मा मातसरस्वत्या: समक्षे पुष्पार्पणेन च एवं दीपप्रज्ज्वालनेन कृतवन्त: । तदनन्तरं विभागप्रमुखेभ्यः उपप्रमुखेभ्यः च शपथग्रहणं कृतम् । छात्रसंसदप्रभारी आचार्यरोहितबलोदी छात्रेभ्य: विभागभूमिकाम् उक्तवान् ।

प्रधानमंत्रीपदे अभिषेकरावत:, सेनापतिपदे सक्षमजुयाल:, कन्याभारती-अध्यक्षपदे देवयानीध्यानी, उपाध्यक्षपदे कुमकुमरावत:, अनुशासनप्रमुख: अर्जुनसिंह:, स्नेहाखंतवाल:, वंदनाप्रमुख: महकराणाकोटी , चिकित्साप्रमुख: दिव्या प्रजापति:, प्रतियोगिताप्रमुख: अक्षिता, पुस्तकालयप्रमुख: अभिषेक:, पुरस्कारप्रमुख: रजतसैनी, समाचारप्रमुख: नमिता, अर्चना व कनक:, विद्युत्प्रमुख: प्रियांशु, जलप्रमुख: निशांत:, महोत्सवजयंतीप्रमुख: दीपाली मलासी, विज्ञानप्रमुख: गौरीश: व दिया, क्रीडाप्रमुख: आयुषरावत:, खाद्यप्रमुख: रुचिखंतवाल: अतिथिप्रमुख: दीप्तिशर्मा विभागसत्यता एवं गोपनीयता इत्येवं प्रकारेण शपथग्रहणं कृतवन्त: । भवेशकुमारद्वारा सर्वेभ्य: पदाधिकारिभ्य: एवं छात्रेभ्य: वर्धापनानि यच्छन् स्व-स्व-विभागेषु सक्रियकार्यकरणार्थं मार्गदर्शनं कृतं। अवसरेस्मिन् प्रधानाचार्य: निर्मलकेमनी, प्रधानाचार्य: प्रदीपनौडियाल: आचार्य: अनिल: कोटनाला, संगीतारावत:, राहुलभाटिया, राजनशर्मा व छात्र-छात्रा: च उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button