संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतभारत्याः आधारस्तम्भः सम्भाषणशिबिरम् – गौरवशास्त्री

देहरादूनम् – संस्कृतभारतीदेहरादूनपरतया कार्यकर्तृभ्यः सम्भाषणशिविरसञ्चालनगतं कौशलम् अर्जयितुं सम्भाषणबिन्दुविमर्शवर्गः समायोजितः । यत्र मुख्यातिथिरूपेण उत्तराञ्चलप्रान्तस्य संगठनमंत्री गौरवशास्त्री अकथयत् यत् शिविरसञ्चालनदृष्ट्या सम्भाषणबिन्दुविमर्शवर्गस्य आयोजनम् अत्यन्तम् अपेक्षितव्यम् । तेन विना शिविरसञ्चालनं सम्यक्तया न संभवति । संस्कृतभारत्याः आधारस्तम्भः संभाषणशिविरम् एव। विभागसंयोजकः नागेन्द्रव्यासः वर्गोद्देश्यानि उल्लिखितवान् । सत्रसंयोजकः जनपदमन्त्री प्रदीपसेमवालः मुख्यातिथये स्वागतं व्याहृत्य वर्गस्य प्रास्ताविकम् अपठत्। महानगरशिक्षणप्रमुखः डॉ राजेशशर्मा शिक्षणबिन्दुषु विस्तारेण प्रकाशं क्षिप्तवान्। सहविभागसंयोजकः डॉ. नवीनजसोला भाषापरिष्कारविषये व्याख्यानं दत्तवान्। कार्यकर्तृशिक्षकैः तत्तद्बिन्दुषु शिक्षणाभ्यासः विहितः । वर्गः अयं प्रातः नववादनतः सायं पञ्चवादनं यावत् प्राचलत् । केन्द्रप्रमुखः योगेशकुकरेती एतन्निमित्तम् उत्तमव्यवस्थाम् अकरोत् । अवसरेस्मिन् महानगरमन्त्री माधवपौडेलः, सम्पर्कप्रमुखः धीरजमैठाणी, डॉ आनन्दजोशी, डॉ. अनुमेहाजोशी, शिवानीरमोला, अजयनौटियालः, धीरजविष्टः , श्वेतारावतः, गीतिका, कृशा, शालू, काजल:, बीनापुरोहितः, अभिजितः, वाणी, श्रुतिः इत्यादयः दायित्वकार्यकर्तारः , सामाजिकाः , छात्राश्च समुपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button