उत्तराखण्डहरिद्वार

हरिद्वारे जनपदस्तरीय- संस्कृतछात्रस्पर्धानां भव्यसमापनम्

समापितकनिष्ठवर्गस्य स्पर्धायाः संस्कृतसमूहनाटकस्पर्धायाम् प्रथमं स्थानं मारवाड़कन्यापाठशाला-इण्टर-कॉलेज्-रुड़की, द्वितीयं स्थानं श्री जगदेवसिंह-संस्कृत-महाविद्यालय: सप्तऋषि:, तृतीयं स्थानं एस.एस.डी.पी.सी. गर्ल्स-इण्टर- कॉलेज्-रुड़की प्राप्तवान्। संस्कृतसमूहगानस्पर्धायाम् प्रथमं स्थानं श्री जगद्गुरु: श्री चन्द्रसंस्कृतमहाविद्यालयहरिद्वारं, द्वितीयं स्थानं श्री मारवाड़कन्यापाठशाला-इण्टर-कॉलेज्- रुड़की, तृतीयं स्थानं बी. डी. इण्टर-कॉलेज्-भगवानपुरं प्राप्तवान्। संस्कृतसमूहनृत्यस्पर्धायाम् प्रथमं स्थानं आर्यकन्या पाठशाला इण्टर-कॉलेज्-रुड़की, द्वितीयं स्थानं श्री रामविद्या- मन्दिर-इण्टर-कॉलेज्-श्यामपुरं, तृतीयं स्थानं ऋषिकुलविद्यापीठब्रह्मचर्याश्रम: संस्कृतमहाविद्यालयहरिद्वारं प्राप्तवान्

तथा संस्कृतवादविवादस्पर्धायाम् प्रथमं स्थानं श्री जगद्देवसिंह संस्कृतमहाविद्यालय: सप्तऋषि:, द्वितीयं स्थानं माँ-सरस्वती -पब्लिक-स्कूल्-बहादराबाद:, तृतीयं स्थानं सत्यनारायण-इण्टर्- कॉलेज्- मखदुमपुर-मंगलौर: प्राप्तवान्। संस्कृताशुभाषणस्पर्धायाम् प्रथमं स्थानं वैदिकसंस्कृत- महाविद्यालयखुब्बनपुर-भगवानपुरं, द्वितीयं स्थानं आचार्यकुलं पतञ्जलियोगपीठ:, तृतीयं स्थानं ब्रह्मचारी रामकृष्णसंस्कृत- महाविद्यालयहरिद्वारं प्राप्तवान्। श्लोकोच्चारणस्पर्धायाम् प्रथमं स्थानं ब्रह्मचारीरामकृष्णसंस्कृत-महाविद्यालयहरिद्वारं, द्वितीयं स्थानं पी.एम. श्री अटलोत्कृष्टबालिका-इण्टर-कॉलेज्-भौरी, तृतीयं स्थानं आर्मी-पब्लिक-स्कूल-रुड़की प्राप्तवान्।

कनिष्ठवर्गस्य स्पर्धायाः शुभारम्भे उत्तराखण्डसर्वकारस्य पूर्वकैबिनेट्मंत्री हरिद्वारविधायक: मदनकौशिक:, भगवानदास-आदर्शसंस्कृतमहाविद्यालयस्य उपाचार्य: डॉ.निरंजनमिश्र:, उत्तराखण्डसंस्कृत-अकादमी-सचिव: डॉ. वाजश्रवा आर्य:, संयुक्तरूपेण दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्त:

मुख्यातिथिना मदनकौशिकेण उक्तं यत् संस्कृतं देवभाषा इति विश्वे प्रसिद्धा अस्ति, उत्तराखण्डप्रदेशे देवभूमेः नाम्ना प्रसिद्धं, च प्रदेशस्य द्वितीया राजभाषा संस्कृतम् अस्ति। प्रदेशसर्वकारः संस्कृतभाषायाः प्रचारः संरक्षणं संवर्धनं च सन्देशं प्रदातुं संकल्पबद्धः अस्ति। संस्कृतपठनस्य क्षेत्रे बहवः सम्भावनाः सन्ति, याः सम्भावनाः पूर्तिं प्राप्तुं योजनाबद्धे कार्येण बलं दातव्यम् अस्ति। संस्कृतपठनशास्त्रज्ञः छात्राः यत्र संसाधनाभावे अपि तेषां प्रतिभायाः प्रदर्शनं अद्भुतं करोति, तस्याः प्रशंसा योग्यं कार्यं संस्कृताकादमीद्वारा सम्पादितप्रीतिकारं कृतम्।

संस्कृताकादमीसचिवेण डॉ. वाजश्रवा-आर्येण स्वागतभाषणं कृत्वा आगन्तुकानां स्वागतं अभिनन्दनं च कृतम्।

कार्यक्रमे अध्यक्षतायां डॉ. नरेंद्रमिश्र: उक्तवान् यत् संस्कृतभाषायाम् अथर्वज्ञानं समाहितम् अस्ति, यं ज्ञानं जनसमक्षे प्रस्तुत्य संस्कृतभाषायाः प्रचारं क्रियताम् इति तात्त्विकं विचारयत्। संस्कृतं साधारणभाषा कर्तुं तया व्यवहारद्वारा तदावश्यकम् अस्तीति प्रोक्तं।

कार्यक्रमस्य संचालनं जनपदसंयोजक: डॉ. विजयत्यागीद्वारा कृतम्। कार्यक्रमे डॉ. हरीशतिवारी, डॉ. प्रकाशचन्दपन्त:, डॉ. हरीशगुरुरानी, लीला रावत:, डॉ. प्रकाशजोशी, श्यामलालगौड:, डॉ. कुलदीपपन्त:, आचार्यहेमन्ततिवारी, डॉ. कञ्चनतिवारी, डॉ. राकेशमढ़वाल:, ललितचौहान:, सुश्री करुणा चौहान:, प्रकाशतिवारी, कमलेशध्यानी, दिवाकरगौड:, ज्योति:, उर्वशी पवार:, डॉ. पुष्पांजलि: अग्रवाल: च उपस्थिताः आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button