चण्डिगढ़े राज्यपालेन श्री-कटारिया-वर्येण सह जातमद्य मेलनम्
राजभवने संस्कृतभारत्या: पदाधिकारिभि: कृतं मेलनम्

अद्य संस्कृतभारतीपञ्जाबाध्यक्षस्य डॉ. वीरेन्द्रकुमारस्य अध्यक्षतायां चण्डीगढस्थराजभवने श्री गुलाबचन्दकटारियामहोदयेन सह मेलनं जातम्। अध्यक्षेनोक्तं यत् संस्कृतभारती वर्षेस्मिन् शरदि ग्रीष्मे च द्वयोः सम्भाषणशिविरयोः आयोजनं करोति यत्र विविधेभ्यः स्थानेभ्यः संस्कृतछात्राः समागत्य संस्कृतसम्भाषणकौषलं वर्धन्ते। अस्याः शरदः शिविरस्यायोजनं लुधियानानगरे माँ-बगलामुखीमन्दिरे अस्ति यस्मिन् गवर्नरमहोदयाः निमन्त्रिताः विद्यन्ते। अस्मिन् मेलने पञ्जाबराज्ये संस्कृतस्य वर्तमानदशाविषयेऽपि सारगर्भिता चर्चा जाता ।
अध्यक्षेन श्री वीरेन्द्रेणोक्तं यत् संस्कृतभाषा पञ्जाबिजनानां पुरातनीभाषा अस्ति यस्यां पञ्जाबीजनानां गर्वः करणीयः। नैकाः वेदानाम् ऋषयः, पुराणानां कर्तारः, मुनयः, शास्त्रकर्तारः पञ्जाबराज्येन सम्बन्धिताः सन्ति। वेदाः पञ्जाबभूमिस्थाः प्रथमाः कृतयः सन्ति यत्र प्रारम्भिकपञ्जाबजनानां विषये तथ्यानि लभ्यन्ते। अतः निजसंस्कृतिविषये ज्ञानाय पञ्जाबीजनैर्पि संस्कृतम् अध्येतव्यमेव। तेन पुनः उक्तं यत् पञ्जाबी जनाः राजनीतिकारणैः संस्कृततः दूरं जाताः परन्तु इदानीं समयः अस्ति यत् पुनः पञ्जाबीजनाः संस्कृतेन युक्ताः भवेयुः। पुनश्च वेदगतमन्त्राधारेण पञ्जाबविषयकं शोधं कुर्युश्च।
अस्मिन् अवसरे श्रीराजपालेन कटारियामहोदयेन संस्कृतभारत्याः प्रकल्पानां प्रशंसनं कुर्वन् सर्वविधसहायताः आश्वासनमपि दत्तम्। अस्मिन् मेलने समुपस्तिथेन अजय-आर्येणोक्तं यत् संस्कृतभारती विश्वेस्मिन् संस्कृतप्रचार-प्रसाराय वृहत्तमं संगठनमस्ति। यत्र विना जाति-लिङ्गविभेदेन सर्वेभ्यः कृते संस्कृत-सम्भाषण-शिक्षा प्रदीयते। मेलनेस्मिन् मातृबलगामुखीधाम-लुधियानानगरतः श्री प्रवीणचौधरी, संस्कृतभारतीपञ्जाबसंगठनस्य मन्त्री श्री संजीव-श्रीवास्तवः समुपस्थितः आसीत् ।







