संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

संस्कृतभारती-उत्तराञ्चलस्य प्रान्तसमीक्षागोष्ठी 7त:8 दिनांके

१३ जनपदेभ्यः, खण्डेभ्यः, नगरेभ्यः च उत्तरदायीकार्यकर्तारः अस्मिन् अधिवेशने प्राप्स्यन्ति---- "प्रान्ताध्यक्षा श्रीमती जानकीत्रिपाठी"

• कार्यकर्तार: च शिक्षका: योजनानुसारेण संस्कृतहिताय अहर्निशं कार्यं कुर्वन्ति—संगठनमंत्री गौरवशास्त्री

उत्तराखण्ड। संस्कृतभारती इति संस्था जनान् संस्कृतवार्तालापार्थं प्रेरयति, सा प्रत्येकं गृहे संस्कृतपरिवारस्य निर्माणं कुर्वती अस्ति। अद्यत्वे बहवः परिवाराः संस्कृतेन वार्तालापं कुर्वन्ति। सर्वत्र संस्कृतेन सम्भाषणं संजायते। भारते संस्कृतभारती सर्वेषु राज्येषु कार्यकर्तृमाध्यमेन प्रचारकार्यं कुर्वती अस्ति। भारतस्य अतिरिक्तं विदेशे अपि संस्कृतभारत्याः बहवः कार्यकर्तारः अपि संस्कृतं प्रसारयन्ति।

देवभूमि-उत्तराखण्डे वैदिकयुगात् अद्यपर्यन्तं संस्कृतस्य धारा गङ्गा इव अबाधितरूपेण प्रचलति, यस्मिन् अद्यत्वे संस्कृतभारतीद्वारा संस्कृतेन अपरिचितः व्यक्तिः नास्ति, संस्कृतभारत्याः प्रचारकार्ये महादायित्वं कार्यकर्तार: संस्कृतस्य गुरूतरकार्य वहन्त: सन्ति।

उत्तराखण्डस्य १३ जिल्हेषु संस्कृतभारत्याः प्रचारकार्यं महता उत्तरदायित्वेन क्रियते।अस्मिन् वर्षे सर्वेषां कार्यकर्तृणां माध्यमेन २०१६ तः आगमिष्यमाणं सम्मेलनं काशीपुरे ७ तमे दिनाङ्के भविष्यति ८ प्रान्तीयसमीक्षारूपेण, यस्मिन् पूर्वकार्यस्य समीक्षा भविष्यति, आगामिवर्षे करणीयाः कार्याणां कृते नूतनाः उत्तरदायित्वं निर्धारितं भविष्यति।

संस्कृतभारत्याः प्रदेशाध्यक्षा श्रीमती जानकी त्रिपाठी उक्तवती यत् ७त: ८ दिनाङ्के प्रान्तेभ्यः, १३ जनपदेभ्यः, खण्डेभ्यः, नगरेभ्यः च उत्तरदायी कार्यकर्तारः अस्मिन् अधिवेशने प्राप्स्यन्ति। संस्कृतभारत्या: संगठनमंत्री गौरवशास्त्री उक्तवान् यत् संस्कृतमाध्यमेन जना: वार्तालापं कुर्यु: अत: कार्यकर्तार: च शिक्षका: योजनानुसारेण संस्कृतहिताय अहर्निशं कार्यं कुर्वन्ति। संस्कृतं प्रतिजनं सम्प्राप्तुं नवशिक्षका: अपि निर्मीयन्ते । अस्मिन् वर्षे काशीपुरे संस्कृतभारती-उत्तराञ्चलस्य प्रान्तसमीक्षागोष्ठ्यां सर्वेषां स्वागतम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button