संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

पञ्चदशदिवसीयसंस्कृत-सम्भाषणकार्यक्रमस्य समापनं

डा. नवीनजसोला सर्वान् कारितवान् संस्कृतेन अभ्यासं

• हिमालयायुर्वेदचिकित्सामहाविद्यालये १४ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं संस्कृतसम्भाषणं प्राचलत्

देहरादून। हिमालयविश्वविद्यालयस्य
हिमालयायुर्वेदचिकित्सामहाविद्यालये २०२३ तमस्य वर्षस्य एप्रिल १४ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं वदतु संस्कृतम् इत्यस्य अन्तर्गतं संस्कृतसम्भाषणवर्गं प्राचलत् । अस्यां कक्षायां उपस्थिताः चिकित्साशास्त्रस्य छात्राः आयुर्विद्यारम्भसंस्कारकार्यक्रमे १५ दिवसान् यावत् संस्कृतभाषायां सम्भाषणस्य अभ्यासं कृतवन्तः ।
अस्मिन् अवसरे प्राध्यापकः अनूपकुमारगक्खड: कुलसचिव: उत्तराखण्डायुर्वेदविश्वविद्यालयस्य मुख्यातिथिरूपेण तथा विशेषातिथिरूपेण हिमालयविश्वविद्यालयस्य कुलपतिः प्राध्यापक: राजेशनैथानी सर्वान् सम्बोधितवन्तौ च संस्कृतवार्तालापस्य उद्घाटनं कुर्वन् डॉ. अनिलकुमारझा स्वागतभाषणं प्रस्तुतवान्। समापनदिवसस्य अवसरे पूर्वशिक्षामन्त्री वर्तमानलोकसभासांसदः डॉ. रमेशपोखरियालनिशङ्कः अपि संस्कृतभाषायां अभ्यासं कुर्वतां प्रोत्साहनं दत्तवान्। कुलपतिः प्राध्यापकः प्रदीपकुमारभारद्वाजः आयुषमन्त्रालयस्य पूर्वनिदेशकः डॉ.पूजाभारद्वाजः च विशेषगणमान्यरूपेण उपस्थिताः आसन्। कार्यक्रमसंयोजकः डा. नीरजश्रीवास्तव: संस्कृतशिक्षकः वर्गसञ्चालकः डा. नवीनजसोला आस्ताम्। अवसरेस्मिन् डॉ. नंदकिशोर:, डॉ. सत्येन्द्र:, डॉ. निष्ठा डॉ. काव्य, डॉ. रश्मि : भट्ट : डॉ. अपेक्ष : डॉ. अजीत : डॉ. आनन्द : च आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button