विहार

बिहारराज्यान्तर्गते दरभङ्गाजनपदे नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन “शिक्षकदिवसमभिलक्ष्य समनुष्ठितः कार्यक्रमः”

शिक्षकः युगस्य निर्माता भवति- "डा.रामसंयोगराय:"

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन सितम्बरमासस्य ०५ दिनाङ्के शिक्षकदिवसमभिलक्ष्य कार्यक्रमः समनुष्ठितः। विदितमेव तत्रभवतां यद्भारतस्य राष्ट्रपतीनां डाॅ०सर्वपल्लीराधाकृष्णन् महोदयानां जनुर्दिवसम् अभिलक्ष्य विपुलेऽपि भारतवर्षे शिक्षकदिवसरूपेण आमन्यते। कार्यक्रमस्यामुष्य शुभारम्भः महाविद्यालयस्य प्रधानाचार्येण डा० रामसंयोगरायमहोदयेन व्यधायि।

अवसरेऽमुष्मिन् महाविद्यालयीयान्तेवासिनः ( अंजूकुमारी, तुलसीकुमारी, नीतिशकुमारः, सोमनाथझा, बाबूराजः, कबीरदासः, सुरेशकुमारसहनी, दर्शनकुमारझाः, तिलककुमारझाः, रोहितकुमारमिश्रा, अभिलाषाकुमारी, अंकिताकुमारी प्रभृतयः) आदर्शसमाजस्य निर्माणे शिक्षकस्य भूमिकेति विषयमुरीकृत्य स्व-स्वविचारान् प्रत्यपादयन्।
अथातो महाविद्यालयस्य सहायक-प्राध्यापकैः (डा०रंजीतकुमारठाकुरः, डा० रेणुझाः, डा० सरिताकुमारी, डा० नियतिकुमारी, डा० विभूतिनाथझाः, डा० नितेशकुमारमिश्रः) तथा शिक्षकेतरकर्मचारिभ्यां (राजकुमारझामहोदयः, मुकुन्दकुमारमहोदयः) शिक्षकदिवससम्बद्धतथ्यानि समुद्घाटितानि।

कार्यक्रमस्य संयोजिकया डा० सरस्वतीकुमारीवर्यया ‘शिक्षायास्त्रीण्यधिकरणानि’ (शिक्षकः, शिक्षार्थी एवं अभिभावकः) इति विषयममुमवलम्ब्य चर्चा समाम्नाता। महाविद्यालयस्य प्रधानाचार्येण डाॅ० रामसंयोगरायमहोदयेन स्वकीयेन अध्यक्षीयभाषणेन छात्रान् उद्बोधयता उक्तं यत् शिक्षकः युगस्य निर्माता भवति। यस्याङ्के निर्माणं प्रलयश्चोभावपि वर्धेते। एतैः रामायण-महाभारत-पुराणकालीनानां गुरुशिष्याणां मध्ये व्याप्ताः स्वस्थाः स्वच्छाश्च सम्बन्धाः रेखाङ्किताः।

दर्शनविषयकसहायकप्राध्यापकेन डॉ. छबिलालन्यौपानेमहोदयेन कार्यक्रमस्यामुष्य मञ्चस्य गभीरतया सञ्चालनं कुर्वतोक्तं यच्छिष्येषु ज्ञानरूपिबीजस्य वपनम् अध्यापकः एव करोति। एतैः मञ्चसञ्चालनक्रमे मालविकाग्निमित्र-श्रीमद्भागवतपुराण-गीता-हितोपदेश-नीतिशतकप्रभृतिग्रन्थेषु वर्णिताः शिक्षकविषयकविचाराः उद्धृताः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button