संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेश

विधानसभायाः परिषदः पूर्वसदस्यानां निधने मुख्यमन्त्रिणः अभिव्यक्तः शोकः

विधानमण्डलस्य अर्थसङ्कल्पसत्रस्य द्वितीयदिनम्

• वर्तमानविधानसभायाः सदस्यः अभवत् राहुलप्रकाशकोलः अपि च पूर्वविधानसभाध्यक्षः केशरीनाथत्रिपाठी चेत्यादिभ्यां सह पञ्चदशानां पूर्वसदस्यानां निधने सदनेन अपि अभिव्यक्ता शोकसंवेदना

लखनऊ । उत्तरप्रदेशविधानमण्डलस्य अर्थसङ्कल्पसत्रस्य द्वितीयदिने विधानसभायाः वर्तमानसदस्यः राहुलप्रकाशकोलः, केशरीनाथत्रिपाठी चेत्यादिभ्यां सह पञ्चदशानां पूर्वसदस्यानां निधनेन मुख्यमन्त्रिणा योगिना आदित्यनाथेन शोकः प्रकटितः ।

“निर्धनानाम्, वनवासिनां च क्षेत्रयोः विकासाय प्रयत्नशीलः आसीत् कोलः”

मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् विधानसभायाः वर्तमानसदस्यः राहुलप्रकाशकोलस्य फरवरीमासस्य द्वितीयदिनाङ्के चत्वारिंशत् वर्षस्य आयोः निधनम् अभवत् । सः एकः युवा राजनेता आसीत् । कोलः छात्रजीवनात् एव राजनीतौ सक्रियः आसीत् । सः 2017तमे वर्षे, 2022तमे वर्षे च सदनस्य सदस्यत्वेन निर्वाचितः । अतीव शिष्टः, विवेकशीलः, समर्पितः च जननेता भवितुं सः स्वस्य विधानसभाक्षेत्रस्य, निर्धनानाम्, वनवासिनां च क्षेत्राणां विकासाय निरन्तरं प्रयत्नशीलः आसीत् । सेवाभावनयाः कारणेन सः स्वक्षेत्रे अतीव लोकप्रियः जननेता इति रूपेण उद्भवति स्म । राहुलकोलस्य निधनेन राज्ये एकः युवा नेता, कुशलः राजनेता च नष्टः अभवत् । तस्य मृत्युः समाजस्य अपूरणीयः हानिः अस्ति।

“उत्तरप्रदेशेन सहैव भारतीयराजनीतेः अपूरणीयहानिः”

मुख्यमन्त्रिणा विधानसभायाः पूर्वाध्यक्षस्य पूर्वराज्यपालस्य च केशरीनाथत्रिपाठिनः मृत्योः अपि शोकः अभिव्यक्तः । 2023तमे वर्षे जनवरीमासस्य अष्टदिनाङ्के अष्टाशीतिः वर्षस्य अवस्थायां तस्य निधनम् अभवत् । केशरीनाथत्रिपाठिना प्रारम्भिकजीवनस्य आरम्भः अधिवक्तारूपेण कृता । सः 1977तमे वर्षे झूंसीतः जनतापक्षतः, प्रयागराजतः 1989, 1991, 1993, 1996, 2002तमे वर्षे भाजपादलात् विधानसभा सदस्यत्वेन निर्वाचितः । सः रामनरेशयादवमन्त्रिमण्डलस्य सदस्यः अपि आसीत् । 1991, 1997, 2002तमे वर्षे सः त्रिवारं निर्विरोधः विधानसभायाः अध्यक्षः अभवत् । श्रीत्रिपाठी 2014तमे वर्षे जुलाईमासतः 2019तमस्य वर्षस्य जुलाईमासपर्यन्तं पश्चिमबङ्गस्य राज्यपालः आसीत् । एतदतिरिक्तं बिहार-मेघालयस्य, मिजोरमस्य च राज्यपालस्य अतिरिक्तप्रभारः अपि दत्तः । सः इलाहाबाद-उच्चन्यायालये वरिष्ठः अधिवक्ता आसीत्, बार-सङ्घस्य अध्यक्षः च आसीत् । अनेकानि काव्यसङ्ग्रहानि रचितवान् । हिन्दीगरिमासम्मानं, आचार्यमहावीरप्रसादद्विवेदीसम्मानं, वागेश्वरी चेत्यादिभिः सह अनेकानि सम्मानि प्राप्तवान् । उत्तरप्रदेशहिन्दीसंस्थानस्य कार्यकार्याध्यक्ष आसीत् । केशरीनाथत्रिपाठीनः उत्कृष्टसेवायै चाणक्य–भारतगौरव–उत्तरप्रदेशरत्न–विकासपुरुष–चेत्यादयः अनेकाभिः उपाधिभिः सः सम्मानितः । तस्य निधनं उत्तरप्रदेशेन सह भारतीयराजनीतेः अपूरणीयहानिः अस्ति ।

“अन्येषां चतुर्दशपूर्वसदस्यानां मृत्योः मुख्यमन्त्रिणा श्रद्धाञ्जलिः अर्पितः”

मुख्यमन्त्रिणा योगिना आदित्यनाथेन पूर्वसदस्याः कौशाम्बीतः रामचरणत्रिपाठी, वाराणसीतः अमरनाथयादवः, बांदातः जगन्नाथसिंहपरमारः, अलीगढतः त्रिलोकिरामः, अयोध्यातः मथुराप्रसादतिवारी, सम्भलतः ब्रजपालसिंहः, कन्नौजतः विजयबहादुरपालः, सम्भलतः सत्यप्रकाशः, प्रयागराजतः विक्रमाजीतमौर्यः, बाराबंकीतः सुन्दरलालदीक्षितः, कासगञ्जतः जसबीरसिंहः, अलीगढ़तः सञ्जीवराजा, कन्नौजतः बनावरीलालदोहरे, कानपुरदेहाततः रामस्वरूपसिंहः चेत्यादीनां दिवङ्गतौ सति अपि श्रद्धाञ्जलिः अर्पिता ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button