संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

कण्वनगर्यां ‘नन्ही दुनिया भावी राष्ट्र’ इत्यस्य २१ तम: स्थापनादिवस: समायोजित:

कोटद्वारं । ‘नन्ही दुनिया भावी राष्ट्र’ इत्यस्य २१ तमे स्थापनादिने आयोजिते कार्यक्रमे मुख्यातिथिरूपेण डॉ. चन्द्रमोहनबडथवालस्य अध्यक्षतायां वदन् DEUSE इत्यस्य महासचिवः शिक्षाविदः श्री रमाकान्तकुकरेती इत्यनेन उक्तं यत् GAPS इत्यस्य संस्थापकः रामभरोसा कण्डवाल:, 21 वर्षपूर्वत: 27नवम्बरमासे2003त: यूनां मध्ये राष्ट्रवादस्य भावनां जागृतुं ‘नन्ही दुनिया भावीराष्ट्र’ इति पुस्तकं यूनां हस्ते समर्प्य ऐतिहासिकं कार्यं कृतवान् ।

संस्था विश्वपर्यावरणात् सामाजिकपर्यावरणपर्यन्तं निरन्तरं कार्यं कुर्वती अस्ति। संस्था मातापितृणां, शिक्षकाणां, वृद्धानां च सम्मानेन सह राष्ट्रियसम्मानस्य पालनं कुर्वती अस्ति।

अस्मिन् अवसरे संस्थापकः कण्डवालः सर्वेभ्यः कामनाम् अकरोत् यत् राष्ट्रनिर्माणे मातुः बृहत्तमा भूमिका अस्ति।यदि माता सद्चरित्रयुक्ता, धार्मिका, कर्तव्यनिष्ठा च भवति तर्हि निःसंदेहं आदर्शराष्ट्रस्य निर्माणं सम्भवति। माता छत्रपतिशिवाजीवर्यस्य, रामस्य, कृष्णस्य, सरदारपटेलस्य, झांसीरानीवर्याया: तथा अनेकमहापुरुषाणां पृष्ठे आसीत् ।

कण्डवालः अवदत् यत् इतिहासेन ज्ञातं यत् या: स्त्रिय: अपमानं कुर्वन्ति ते विनाशार्थं समयं न लभन्ते।
अवसरेस्मिन् संस्थापक: कण्डवाल: जिलाध्यक्षं सुंदरलालजोशीं काव्यरचनाद्वारा एवं स्मृतिचिन्हप्रदानेन सम्मानितवान्, सहैव पुत्रस्य आयुषस्य विवाहावसरे संस्थापक्षत: हार्दिकशुभकामना: प्रदत्ता: । अस्मिन् अवसरे सुन्दरलालजोशीमहोदयः मुख्यातिथिहस्तेन संस्थापक-पदकद्वारा सम्मानितोभवत्।

अवसरेस्मिन् संस्थाया: कार्यकर्तृभि: सरस्वतीवंदना, स्वागतगीतं, समूहगीतं, भारतवंदना, श्री बद्रीनाथस्य आरती चेत्यादिषु भागग्रहणेन सहैव वंदेमातरं इत्यनेन कार्यक्रम: समाप्तोभवत्।
अस्मिन् अवसरे विद्यालयस्य बालकाः पदकैः, पुस्तिकया लेखन्या च सम्मानिताः । कार्यक्रमस्य संचालनं GAPS इत्यस्य सांस्कृतिकप्रभारिणा श्रीमतीरेखाध्यानीद्वारा कृतम्। अस्मिन् अवसरे समाजसेवी दिनेशचौधरी, नन्दनसिंहनेगी च विशेषातिथिरूपेण स्वविचारं प्रकटितवन्तौ।
कार्यक्रमेस्मिन् प्रदीपसिंह:, रिया चौहान:, प्रकाशकुमार:, प्रशान्त: जखमोला, उज्ज्वललखेड़ा, वैशाली, प्रिया, मीना, मोनिका कपरवाल:, दिनेशचौधरी, नंदनसिंहनेगी, डॉ. चंद्रमोहन: बडथ्वाल:, रमाकांतकुकरेती, श्रीमती रेखा ध्यानी, सुंदरलालजोशी, आयुषजोशी, रामभरोसाकण्डवाल: इत्यादय: अनेकगणमान्या: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button