उत्तराखण्डकण्वनगरीकोटद्वार

उत्तराखण्डस्य गान्धी-स्वर्गीय-इन्द्रमणि-बडोनी- महोदयस्य जन्मदिनं लोकसंस्कृतिदिनरूपेण महानन्देन आचरितम्

अटलोत्कृष्ट-राजकीय-इंटर-कॉलेजकण्वघाट्यां सञ्जात: कार्यक्रम:

अटलोत्कृष्ट-राजकीय-इंटर-कॉलेजकण्वघाटी-दुगड्डा-पौड़ी- गढ़वालमध्ये उत्तराखण्डस्य गान्धी-स्वर्गीय-इन्द्रमणि-बडोनी- महोदयस्य जन्मदिनं लोकसंस्कृतिदिनरूपेण महानन्देन आचरितम्।


कार्यक्रमस्य शुभारम्भः स्वर्गीय-इन्द्रमणि-बडोनी-महोदयस्य चित्रे पुष्पांजलिं समर्प्य विद्यालयस्य प्रधानाचार्येण डॉ0 रमाकान्तकुकरेतीमहोदयेन अन्यैश्च शिक्षक-कर्मचारिभिः सम्यक् आरम्भ: कृत: ।


मञ्चस्य सञ्चालनं सहायक-अध्यापकः श्री राकेशमोहनध्यानी तथा प्रवक्ता संस्कृतस्य श्री कृष्णकान्तः शर्मा इत्येताभ्यां सम्पन्नम्। श्री राकेशमोहनध्यानीमहोदयेन उत्तराखण्डसंस्कृत्या सम्बन्धिताः प्रसिद्धमेलनानि, धार्मिकपर्यटनस्थलानि, नृत्यं, गायनं च विषये उत्कृष्टसंबोधनं प्रदत्तम्।

प्रवक्त्रा जीवविज्ञानस्य श्रीकमलेश्वरप्रसादेन संस्कृति-विषये स्वीयाः सुन्दराः विचाराः प्रस्तुताः। विद्यार्थिभिः लोकनृत्यं, लोकगायनं, लोककलाः च अद्भुतप्रस्तुत्या प्रदर्शिताः।


अस्मिन् अवसरस्य सन्दर्भे विद्यार्थिनः स्वेदकं पादत्राणं च वितरितं कृतम्। कार्यक्रमस्य समापनं विद्यालयस्य प्रधानाचार्येण डॉ0 रमाकान्तकुकरेतीमहोदयेन स्वर्गीय-इन्द्रमणि-बडोनी- महोदयस्य जीवनं, तैः कृतानि कार्याणि, तेषां महत्त्वं लोकसंस्कृतेः च महत्वसम्बन्धितं संबोधनं प्रदत्तं ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button