उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

ग्रीन-आर्मी -देवभूमि-उत्तराखण्ड:” इत्यनेन वृक्षा: रोपिता: ।

।कोटद्वारं। संक्रांतिपर्वणि च हरेलापर्वावसरे उत्तराखण्डे यत्र तत्र सर्वत्र विभिन्नसंस्थाभि: पर्यारणसंरक्षणदृष्ट्या वृक्षारोपणकार्यक्रम: समायोजित: । नक्षत्रवाटिकाकोटद्वारम् इत्यत्र “ग्रीन आर्मी देवभूमि उत्तराखण्ड” इत्यस्य स्वयंसेवकैः ग्रीनप्लस्संस्थासहकारेण वृक्षारोपणकार्यक्रमस्य आयोजनं कृतम्। रोपणकार्यक्रमे ग्रीनप्लस्संस्थायाः बीजगोलद्वारा फलप्रदछायायुक्तवनस्पतयः अपि रोपिताः, स्वच्छता-अभियानमपि कृतम्।

अवसरेस्मिन् सर्वान् सम्बोधयन् विद्वांसः अवदन् यत् अद्यतनपर्यावरणे वृक्षरोपणं कियत् महत्त्वपूर्णं जातम्, मनुष्याणां उद्देश्यं न केवलं वृक्षारोपणं अपितु जीवनपर्यन्तं तेषां परिचर्या अपि भवितुमर्हति, अपि च तेषां भविष्यं प्रोत्साहयितव्यं सन्ततय: एतत् कार्यं कर्तुं तान् अग्रे आनयितुं शिक्षितुं च अतीव महत्त्वपूर्णम् अवसरोयं भवति। अपि च उद्यानस्य व्यवस्था कथं भवेत्, स्वच्छता, वृक्षाणां संख्या कथं वर्धयितुं च शक्यते अस्मिन् विषये अवधानं दातव्यम् । वन्यजीवाः, पक्षिणः, प्राणिनः च पर्यावरणं प्रति आकृष्टाः भवेयुः, प्रकृत्या सह सम्बद्धतां प्राप्तुं तेषां प्रचारार्थं कार्यं कर्तव्यम्। हरितसेनासङ्गठनेन रोपणकार्यक्रमे विविधवृक्षं प्रदातुं वनरक्षिकाया: सीमानेगी इत्यस्या: अपि धन्यवादः कृतः।

कार्यक्रमे ग्रीनप्लससंस्थाध्यक्ष: श्री प्रमोदबंसल: , संस्थासम्बद्ध: सम्मानितसदस्य: डॉ. मोहनकुकरेती, दिग्विजयसिंह:, योगेशजोशी, ऋतुराजरावत:, गणेशकला, तथा “ग्रीन-आर्मी -देवभूमि-उत्तराखण्ड:” इत्यस्य अध्यक्ष: शिवम नेगी, स्वयंसेवक: उत्कर्षनेगी, ज्योतिसजवान: , सतेन्द्रसिंहगुसांई, शालिनी नेगी, यशी नेगी, सुशांत कोहली, संदीपसिंहरावत:, दीक्षांतखुगशाल:, सौरवधूलिया, अंकितथपलियाल: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button