नैनीतालजनपदे डीएमके-सांसद्दयानिधिमारणस्य संस्कृतवक्तव्ये शिक्षकछात्राणाम् आक्रोशप्रदर्शनं जातं
नैनीतालस्य संस्कृतशिक्षकसंघस्य प्रकटित: आक्रोश:

दिनाङ्के १९-२-२०२५ तमे दिवसे श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतोत्तरमध्यमाविद्यालयस्य प्रधानाचार्यः उत्तराखण्डसंस्कृतशिक्षकसंघस्य (नैनीतालस्य) उपाध्यक्षः डॉ. राजेन्द्रभट्टः अवदत् यत् लोकसभायां डीएमके-सांसद् दयानिधिमारनः येन संस्कृतभाषायाः विषये यत् वक्तव्यं प्रदत्तं तत् अत्यन्तं अनैतिकम् अति च घोरनिन्दनीयम् अस्ति। अनेन कारणेन सः सार्वजनिकतया क्षमायाः याचनां कर्तुं योग्यः।
संस्कृतभाषा भारतस्य आत्मा अस्ति। यदि कश्चन संस्कृतभाषायाः अपमानं करोति, सः भारतस्य अपमानं करोति। सांसद्मारनेन संस्कृतभाषायाः अध्ययनं धनस्य अपव्ययः इति यत् उक्तं तत् सर्वथा अस्वीकार्यं वर्तते। उत्तराखण्डसंस्कृतविद्यालय-महाविद्यालय-शिक्षकसङ्घेन अस्य घोरविरोधं कृत्वा तस्य पुतलदाहः अपि कृतः।
प्रबंधकीयशिक्षकसङ्घस्य नैनीताल-महामन्त्री डॉ. प्रकाशचन्द्ररूवाली अवदत् यत् देवभाषा संस्कृतं उत्तराखण्डराज्ये द्वितीयराजभाषारूपेण स्वीकृता अस्ति। संस्कृतभाषा सर्वासां भाषाणां जननी अस्ति। तस्याः अपमानः घोरनिन्दनीयः अस्ति।
प्रबंधकीयसंस्कृतशिक्षकसंघस्य नैनीतालाध्यक्षः डॉ. कीर्तिचन्द्रकलोनी अपि सांसद: वक्तव्यं निन्दितवान्, अवदच्च यत् संस्कृतभाषायाः अपमानः कदापि असहनीयः।
अस्मिन काले संस्कृतछात्रपरिषदः शिक्षकः श्रीपवनकुमारझा, श्रीमतीवन्दनातिवारी, श्रीमतीमायामौलेखी, श्रीकुलदीपचन्द्रः, श्रीभारतभूषणपाण्डेय, डॉ. भुवनचन्द्रजोशी, श्रीदिनेशचन्द्रः, श्री एम.के. उपाध्यायः, श्रीमनोजकोटलियः, श्रीआनन्दबल्लभचौबे, विश्वहिन्दुपरिषदः कार्यकर्तारः च उपस्थिताः आसन्।