संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारती

भारतस्य प्रत्येक: जन: संस्कृतं वदति चेत् तु देश: निश्चित्रूपेण विश्वगुरु: भवितुं शक्नोति -“नन्दकुमार:”

।पिथौरागढम्। विशालजनपदसंस्कृतसम्मेलनस्य आयोजनं 26 8 2023 तथा 27 2023 दिनाङ्के संस्कृतभारत्या: च सार्वजनिकविद्यालयसङ्घस्य संयुक्ताश्रयेण कृतम्। यस्मिन् प्रथमदिवसस्य कार्यक्रमे नगरस्य १८ तः अधिकानां विद्यालयानां शिक्षकाः छात्राः च संस्कृतशोभायात्राम् अकुर्वन् । यस्मिन् ५०० तः अधिकाः छात्राः, शिक्षकाः, सामाजिकाः जनाः च भागं गृहीतवन्तः । कार्यक्रमस्य आयोजनं गङ्गोत्रीगर्ब्याल-रा.बा.इ.का. इत्यत्र अभवत्, प्रथमदिनस्य कार्यक्रमस्य उद्घाटनं दीपप्रज्ज्वालनेन कृतम्।

कार्यक्रमे विशेषातिथिः लक्ष्मणसिंहमहरमहाविद्यालयसंस्कृतविभागस्य प्राध्यापिका शालिनी शुक्ला आसीत् । कार्यक्रमस्य अध्यक्षता ललितजोशी कृतवान् तथा च कार्यक्रमस्य संयोजिका प्रधानाध्यापिका श्रीमती कमला कृतवती। तदनन्तरं विद्यालये गीताश्लोकपाठ:,सुभाषितं,समूहगायनप्रतियोगिता: अपि अभवन्। यत्र संदीपपाण्डे, रमा खर्कवाल:, अनिलचौबे, धर्मानंदजोशी, रूबी गंगवार:, रमेशचन्द्रजोशी, मंजू धोनी निर्णायकभूमिकायाम् आसन्।

* प्रतियोगितायां तस्किनफातिमा कु.सीमा च मानस-अकादमी प्रथमस्थाने*

प्रथम-मानस-एकेडमी जीआईसी-सांस-सीलिंग, एशियन-अकैडमी गंगोत्रीगढ़वाल-स्कूल इत्येते
क्रमशः समूहगायने प्रथमद्वितीयतृतीयस्थाने एवं च तस्किनफातिमा बृजेशजोशी चंद्रशेखर: प्रथमद्वितीयतृतीयस्थाने क्रमशः आसन् । सुभाषितप्रस्तुतौ कुमारी सीमा उत्कर्षजोशी अभिनव: धर्मवाल: क्रमशः प्रथमद्वितीयतृतीयस्थानम् प्राप्तवन्त: ।

कार्यक्रमस्य संयोजिका श्रीमती कमला प्रधानाचार्या गंगोत्रीगर्बयाल: आसीत्। प्रथमदिवसस्य कार्यक्रमे विविधाः संस्कृतप्रतियोगिताः आयोजिताः अभवन् । द्वितीयदिवसस्य कार्यक्रमे मुख्यातिथिरूपेण संस्कृतभारत्याः अखिलभारतीयमन्त्री श्री नन्दकुमारः आसीत्। तै: कथितं यत् समाजे एवंविधकार्यक्रमस्य प्रभाव: संस्कृतं प्रति विश्वासं जनयति । कोटिजना: भारते संस्कृतेन वदन्ति ।
भारतस्य प्रत्येक: जन: संस्कृतं वदति चेत् तु देश: निश्चित्रूपेण विश्वगुरु: भवितुं शक्नोति ।

कार्यक्रमस्य अध्यक्षता श्रीमती कमला आर्यप्रधानाध्यापिका गङ्गोत्री गर्ब्यालः, प्रो. हेमचन्द्रपाण्डेयः, निदेशकः लक्ष्मणसिंहमहर: आसन् संस्कृतभारत्या च जनसङ्घेन आयोजिते अस्मिन् विशाले संस्कृतजनपदसंस्कृतसम्मेलने पिथोरागढस्य अनेके प्रख्याताः अधिकारिणः समाजसेवकाः च भागं गृहीतवन्तः।

कार्यक्रमस्य समापनम् छात्राणां कृते प्रमाणपत्रवितरणेन अभवत्, अस्य विशालस्य जिलासंस्कृतसम्मेलनस्य द्विदिनात्मके भव्यकार्यक्रमे जिलासंयोजकः, गोपेशपाण्डेयमहोदयः, जिल्लासहसंयोजकः रघुनाथभट्टमहोदयः अभिनव: श्रीज्योतिप्रकाशः,नगरसंयोजकः डॉ. बबिता कांडपाल: श्री मनोजजोशी, पाण्डेय:, प्रांतीयसंगठनमंत्री गौरव: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button