महाराष्ट्र

संस्कृतभारतीविदर्भप्रान्तस्य प्रान्तसम्मेलनं नागपुरनगरे जातम्

प्रेषक:- विनयसिंहराजपूत: । संस्कृतभारती विदर्भ प्रान्तस्य प्रान्त सम्मेलनं नागपूरनगरे जातम् । कार्यक्रम: जनवरी मासस्य ११,१२ दिनाङ्के आसीत्। तस्य समापन कार्यक्रम: अद्य सुदर्शन सभागृहे अपरह्वे ३.०० वादने जातम्। कार्यक्रमे कार्यक्रमस्य अध्यक्षः इति पदं मा. रमेशः मन्त्री स्वीकृतवान् ।

मुख्यतिथि: रूपेण मा. शामसुन्दर: सोनी महोदय: आसीत्। मा. श्रीशः देवपुजारी महोदय: मार्गदर्शक रूपेण आसीत्। अद्य कार्यक्रमे विषेशतिथि: रूपेण मा. संदीप: पाटील: महोदय: (आयपीएस, डीआयजी, गडचिरोली परीक्षेत्रम्) आसीत्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button