उत्तराखण्ड
उत्तराखण्ड
-
संस्कृतशिक्षणस्य नवदिशि द्वादशदिवसीयाकार्यशाला
संस्कृतभारत्याः रुडकीजनपदशाखायाः भारतीयप्रौद्योगिकीसंस्थानस्य रुडकीपरिसरस्थस्य (IIT Roorkee) संस्कृतसङ्घस्य तत्रत्य प्रबन्धनविद्याविभागस्य च संयुक्ताश्रयेण संस्कृतशिक्षणं नूतनां दिशं नेतुं द्वादशदिवसीया शिक्षकप्रशिक्षणकार्यशाला आयोज्यते ॥ इयं…
Read More » -
भोगपुरे ( देहरादूनम् ) त्रयोदशसंस्कृतग्रामाणां लोकार्पणम् – मा.मुख्यमन्त्री-शिक्षामन्त्र्योः सन्निधौ सांस्कृतिकसंकल्पस्य शुभारम्भः
देहरादूनजिल्लान्तर्गतं भोगपुरग्रामे अद्य त्रयोदशसंस्कृतग्रामाणां लोकार्पणसमारोहः भव्यरूपेण सम्पन्नः। अस्मिन् अवसरः उत्तराखण्डराज्यस्य मा.मुख्यमन्त्री श्री पुष्करसिंहधामी मुख्यातिथिरूपेण, मा.शिक्षामन्त्री डॉ. धनसिंहरावत विशिष्टातिथिरूपेण च सन्निहितौ…
Read More » -
कोटग्रामः जातः आदर्श-संस्कृत-ग्रामः
कोटग्रामः (उत्तरकाशी)। उत्तराखण्ड-संस्कृत-अकादम्याः आयोजनं कृत्वा राज्यस्य त्रयोदश-जनपदेषु चयनितेषु आदर्श-संस्कृत-ग्रामेषु वर्चुअल-रूपेण उद्घाटनकार्यक्रमः माननीय-मुख्यमंत्री-पुष्करसिंह-धामी-महोदयस्य करकमलात् सम्पन्नः। अस्मिन क्रमणि उत्तरकाशी-जनपदस्य कोटग्रामे अपि साङ्गोपाङ्गं…
Read More » -
कण्वाश्रमे विश्वसंस्कृतोत्सवे उपनयनं, संस्कृताचरणं, भव्यशोभायात्रा
श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वारनगरसमीपे महर्षिकण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिकगुरुकुले नूतनवटूनामुपनयनसंस्कारः शास्त्रविधिना सुसम्पन्नोऽभवत्। अयं महोत्सवः संस्कृतभारत्याः संस्थायास्तत्त्वावधाने…
Read More » -
हिमालयीयायुर्वेदिकमहाविद्यालये संहितासिद्धान्तसंस्कृतविभागद्वारा संस्कृतदिवसमुपलक्ष्य संस्कृतदिवसाचरणं समनुष्ठितम्
सर्वादौ ज्येष्ठाः वैद्याः दीपं प्रज्वाल्य पुष्पार्चनं कूतवन्तः। वैद्यकीयाः छात्राश्च श्री गणेशं स्मृत्वा धन्वन्तरिवन्दनामकुर्वन् । संस्कृतदिवसस्य प्रास्तविकभाषणे कार्यक्रमसंयोजकः डा नवीन जसोला…
Read More » -
उत्तराखण्डनाम्नि देवभूमौ संस्कृतभाषायाः पुनरभ्युदयाय सर्वकारेण आदर्शसंस्कृतग्रामयोजना घोषिता आसीत् । तस्या एव योजनायाः शुभारम्भः इदानीं भविष्यति
आगामिनि अगस्तमासस्य दशमे दिनाङ्के उत्तराखण्डराज्यस्य मुख्यमन्त्री माननीयो धामिपुष्करसिंहमहोदयो देहरादूनस्थभोगपुरग्रामाद् दूरदृश्यप्रणाल्या निखिलराज्ये घोषितमादर्शसंस्कृतग्रामपरियोजनायाः साक्षादुद्घाटनं विधास्यति । अस्मिन्नेव कार्यक्रमे उत्तरकाशीजनपदान्तर्गतः कोटग्रामोऽपि दूरदृश्यप्रणाल्या…
Read More » -
अथ हिमवत्प्रस्थे पुण्यसलिलया गङ्गया पावितधरातले देहरादूनाख्ये नगरे संस्कृतभारत्या श्रीगङ्गोद्धारसेवासमित्या च संयुक्तोद्यमेन गीर्वाणवाणीसप्ताहस्य सन्दर्भे महान् यज्ञसमारोहः समतिष्ठत।
चन्द्रबनीस्थे गौतमकुण्डपरिसरे विराजिते श्रीबाबाबालकनाथमन्दिरे महतः श्रीहेमराजठाकुरस्य पावने सान्निध्ये संस्कृतभाषाया भारतीयसंस्कृतेश्च संरक्षणाय संवर्धनाय च कृतसङ्कल्पैः सुधीभिरेष यज्ञो व्यधायि। तत्र पुण्यदिने वैदिकमन्त्रघोषैर्दिशो…
Read More » -
अथ मालिनीक्षेत्रे देववाणीप्रचाराय नूतनः प्रयासः भाषाकार्यशाला प्रारब्धा ।
संस्कृतसप्ताहमुपलक्ष्य संस्कृतभारत्याः कोटद्वारशाखायाः मालिनीवैलीमहाविद्यालयस्य च संयुक्ताश्रयेण बुधवासरात् एकं साप्ताहिकं संस्कृतसम्भाषणशिविरं भाषाकार्यशालाया: अन्तर्गतं प्रारभत ॥ अस्मिन्नवसरे नगराध्यक्षः विद्वान् कुकरेतिरमाकान्तमहाभागः शिक्षक: मैन्दोलाकुलदीपमहाभागः…
Read More » -
अथ देवभूमावुत्तराखण्डे देहरादूननगर्याम् वैल्हमकन्याविद्यालये संस्कृतकार्यशालायाः सफलमायोजनम्
देहरादूनम्। पञ्चविंशत्युत्तरद्विसहस्रतमस्य वैक्रमाब्दस्य अगस्तमासस्य तृतीये दिनाङ्के डालनवालाक्षेत्रे सुप्रतिष्ठितस्य वैल्हमकन्याविद्यालयस्य प्राङ्गणे देववाणीसंस्कृतस्य एका मनोहरा कार्यशाला सम्पन्ना। अस्य समग्रस्य कार्यक्रमस्य सङ्कल्पना क्रियान्वयनं…
Read More » -
०६-०८-२०२५ दिनांकत: १२-०८-२०२५ दिनांकपर्यन्तं संस्कृतसप्ताह:
संस्कृतसप्ताहोत्सवः पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अगस्तमासस्य षष्ठदिनाङ्कादारभ्य द्वादशदिनाङ्कपर्यन्तम् अस्मिन् मङ्गलावसरे आयोजनीयानां कार्यक्रमाणां विविधानाञ्च स्पर्धानामावलिरेषा विलोक्यताम् अथ प्रतियोगिताः १ संस्कृतगीतगानस्पर्धा । २ वाग्मिताप्रतियोगिता…
Read More »