संस्कृत समाचार
-
देश
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता। तनवीर कौर: गतवर्षे एव कनाडादेशं गता आसीत् । एषा स्टडी वीजा इति अध्ययनानुमतिपत्रके कनाडा देशं गता आसीत् । सूच्यते यत् कनाडा देशे सा जीविका रहिता अपि आसीत् येन सा अतिशय पर्याकुलिता अवर्तत▪️ 🟰कनाडा-देशे दुरापन्नायां मार्गीयदुर्घटनायां जैतो ग्रामस्य रोड़ीकपूरा इति क्षेत्रस्य वास्तव्यस्य एकस्यैव परिवारस्य सदस्य-त्रयस्य, तेषाम् एकस्य सम्बन्धिनश्च मृत्यु: जात:▪️ 🟰जम्मू काश्मीरस्य बारामूलायां भूकम्पस्य तरङ्गा:, रिक्टर स्केल इति भूकम्प-मापन-यन्त्रेण 4.1 मित: तीव्रतायुत: आसीत् भूकम्प:, न काचिदपि हानि: सूच्यते▪️ 🟰 नेपालदेशे अतिवृष्टिकारणेन एकस्मिन् राजमार्गे दुरापन्ने भूस्खलने बसयानद्वयं त्रिशुलीनद्यां निपतितं विलुप्तञ्च। घटनास्थले उपस्थितानाम् अधिकारिणाम् अनुसारेण, उभयो: बसयानयो: चालकं समेत्य 65 यात्रिण: आरूढा: अवर्तन्त। दुर्घटनायामस्यां सप्त भारतीयानां एकस्य बसचालकस्य च मृत्यु:▪️ 🟰नाइजीरियादेशे द्वि-तलीयं भवनं निपतितम्, 68 छात्रा: मृता: , शताधिकाः छात्रा: ध्वंसावशेषु निपीेडिता:▪️ 🟰 श्रीरामललाभगवत: शरणं प्राप्त: न्यायमूर्ति: CJI चन्द्रचूड:, हनुमान् गढ़ीत्यत्र अपि कृतम् वज्रांगबलिन: पुण्यदर्शनम् ▪️ 🟰 भारतस्य ऐषम: T20 विश्वचषकविजेता दलनायक: रोहित शर्मा विंबलडनस्य रॉयल बॉक्स मध्ये दृग्गोचरित:। असौ तत्र पुरुषैएकलस्पर्धाया: उपान्त्यचक्रीयं द्वन्द्वं विलोकितुं प्राप्त: आसीत् । सप्ताहद्वयपूर्वं बारबाडोसस्य ब्रिजटाउन क्रीडाङ्गणे अन्त्यचक्रीये द्वन्द्वे दक्षिणाफ्रीकादले भारतस्य सप्त धावनाङ्कै: विजयस्य मुख्य क्रीडक: रोहित शर्मा शुक्रवासरे ग्रास-कोर्ट ग्रैंड स्लैम इत्यत्र उपस्थितानां तारकाणां मध्ये मुख्याकर्षणम् आसीत्▪️ 🟰रूसदेशस्य एकं यात्रिविमानं दुर्घटनाग्रस्तं जातम् येन तस्य चालक-दलस्य सदस्यत्रयं पञ्चतां प्राप्तम्। अधिकारिणाम् अनुसारेण विमाने कश्चिदपि यात्री नैव आसीत्▪️
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता।…
Read More » -
संस्कृत भारती
अखिलभारतीय-सहप्रचारप्रमुखेन श्रीराममहोदयेन फतेहाबादे सम्भाषणार्थिन: सम्बोधिता:
फतेहाबादे संस्कृतसम्भाषणशिविरस्य उद्घाटनं श्रीरामहोदयस्य प्रवासश्च जात:। फतेहाबादस्य मत्तानानाम्नके ग्रामे स्थिते गुरुकुले वेदमन्दिरे संस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत्। अद्यस्मिन् अवसरे संस्कृतभारत्या: अखिलभारतीय-सहप्रचारप्रमुख: श्रीराममहोदय:,…
Read More » -
उत्तराखण्ड
ज्ञानकुम्भस्य आयोजनं शिक्षाद्वारा आत्मनिर्भरभारतविषये भविष्यति
वार्ताप्रेषक:डा.नवीनपन्त:।हरिद्वारं। शिक्षासंस्कृति-उत्थानन्यासस्य तथा देवसंस्कृतिविश्वविद्यालयस्य हरिद्वारस्य संयुक्ताश्रयेण ज्ञानकुम्भस्य आयोजनसम्बद्धे आयोजनसमित्याः सभा देवसंस्कृतिविश्वविद्यालयस्य सभागारे आयोजिता। ज्ञानकुम्भस्य विषये न्यास:, देवसंस्कृतिविश्वविद्यालय: च अधिकारिभिः सह…
Read More » -
देश
वार्ताहर:- – डॉ. युवराजभट्टराई 🟰तमिलनाडुराज्ये विरुदनगरे एकस्याम् अग्निक्रीडनकानां निर्माण्यां विस्फोट:, श्रमिकद्वयं मृतम् ▪️ 🟰छत्तीसगढस्य जांजगीरचांपा-मध्ये विषाक्तवात्या: स्रावेण पञ्च जना: मृता:। इमे जनाः कूपे पतितानां काष्ठानां खण्डानां निष्कासनार्थं गता: अवर्तन्त। परन्तु पुनर्नैवायाता:▪️ 🟰उत्तरप्रदेशस्य हरदोई-मध्ये भीषणा मार्गीया दुर्घटना। जनपदस्य बिलग्राम-माधौगंज-मार्गे अनियन्त्रितं तीव्रगतिकं बसयानं एकस्मिन् लघुकुटीरे निविष्टम्। दुर्घटनायां चत्वारो जना: मृत्युमुपगता:। मृतकेषु तिस्र: महिला: सन्ति सम्मिलिताः▪️ 🟰 सन्तु प्रणामाः उत्तराखण्डाय! जम्मू-कश्मीरस्य कठुआ मध्ये सोमवासरे दुरापन्ने अतङ्क्याक्रमणे हुतिंगता: समेSपि पञ्च भटा: उत्तराखण्डस्य सन्ति▪️ 🟰पुरी जगन्नाथधामनि प्रभुबलभद्रस्य रथादवतरणसमये दुर्घटना, पञ्च सेवका: गम्भीरतया व्रणिताः, व्रणिताः सेवकाः उपचारार्थं चिकित्सालये सन्निविष्टा: ▪️ 🟰 कठुआ आतङ्क्याक्रमणस्य अन्वीक्षणस्य दायित्वं NIA अभिकरणाय प्रदत्तम्, विशेषं दलं प्राप्तं घटनास्थलम् ▪️ 🟰मुकेश अम्बानीवर्येण वृन्दावने ठक्कुराय श्रीबांकेबिहारिणे प्रेषितम् अनन्तस्य विवाहस्य निमन्त्रणम्, आशीर्वादस्य कृता कामना▪️ 🟰बॉलीवुड चलच्चित्रोद्योगस्य राखीत्यस्या: निधनस्य प्रसृता: मृषापलापा: , पुत्र्याः मेघनया पारिवारिकं चित्रं विनिमयीकृतम् ट्रोल्स इति कर्तृजनानां मुखं जातं पिहितम् ▪️ 🟰हिमाचल प्रदेशे त्रिषु विधानसभा क्षेत्रेषु देहरा-हमीरपुर-नालागढेषु उप निर्वाचनार्थं मतदानम् अद्य, त्रयोदश्याम् आयास्यन्ति परिणामाः ▪️ 🟰ब्राजील देशस्य साओ पाउलो नगरे भयंकरी मार्गीया दुर्घटना, बसयानद्वयस्य मिथः संघट्टे पञ्चजनानां मृत्यु:▪️ 🟰हरियाणा-प्रशासनेन छात्रेभ्यः कृता बृहती घोषणा, रोडवेज-बस-यानेषु छात्रेभ्य: 150KM पर्यन्तम् उपपादयिष्यते बस-पास इति यात्रापत्रकस्य सौविध्यम् ▪️ 🟰रूसदेशीय-सैन्यबले निरुद्धानां भारतीययुवकानां भारते प्रत्यावर्तनार्थं प्रधानमन्त्रिण: मोदिन: रूसदेशीयप्रधानमन्त्रिण: पुतिनस्य मध्ये सञ्जातसम्भाषणस्य अनन्तरं रूसद्वारा भारतीयानां स्वदेशप्रत्यावर्तनस्य सुविधाप्रदानस्य निर्णय: स्वीकृत:, यस्य अनन्तरं युवकानां परिवारेषु प्रसन्नताया: लहरी वर्तते▪️ 🟰 हरियाणायां भाजपा-दलस्य नूतन: प्रदेशाध्यक्ष: निर्वाचितः मोहनलाल: बड़ौली▪️ 🟰जम्मू-कश्मीरस्य किश्तवाड-मध्ये बृहती दुर्घटना; कारयानं खातौ निपतितम्। येन एकस्यैव परिवारस्य चत्वारो जना: पञ्चतां प्राप्ताः ▪️ 🟰 दिल्ल्याम् आगामि पञ्चदिनपर्यन्तं मेघा: नर्तिष्यन्ति वर्षिष्यन्ति च , ऋतुविज्ञानविभागेन प्रख्यपिता सञ्चेतना▪️
Read More » -
देश
वार्ताहारक: प्रसारकश्च – डॉ. युवराज: भट्टराई 🟰पेरिस ओलंपिक इति क्रीडामहाकुम्भ: 2024, गौतम अडानी वर्येण भारतीयदलाय प्रदत्ता: शुभकामना:, निगदितं यत्- अहं विश्वसिमि अस्मिन् वर्षे भूरि पदकानि आयास्यन्ति▪️ 🟰 दश वर्षेषु प्रधानमन्त्रिण: श्रीमोदिन: पुतिनस्य चास्तीदं षोडशकृत्व: सम्भाषणम्. अस्य विगतं सम्भाषणं समरकंद मध्ये 2022 तमे वर्षे सम्पन्नमासीत्▪️ 🟰 आगामि दिनचतुष्टये जलमग्ना भविष्यति दिल्ली, उत्तरप्रदेशे बिहारे चापि, IMD इति ऋतु विज्ञानविभागस्य सुरक्षासञ्चेतना धारासारत्वेन वर्षिष्यन्ति मेघा:▪️ 🟰 केरलस्य त्रिशूर जनपदे अफ्रीकीय “स्वाइन फीवर” इत्याख्यस्य ज्वरस्य संक्रमणेन मारिता: 310 मिता: शूकरा: ▪️ 🟰 केवलं 24 होराभ्यन्तरे गौतम गम्भीर: भविष्यति भारतीय-क्रिकेट-दलस्य नूतन: प्रशिक्षक: कोच:! BCCI अभिकरणं करिष्यति घोषणा▪️ 🟰उत्तरप्रदेशे नेपाल देशे जाताया: अतिवृष्टे: कारणेन कुशीनगरस्य सप्त-ग्रामा: पूर्णरूपेण सन्ति जलमग्ना:, NDRF इति आपदुद्धारबलेन 40 सहस्रमिता: तोयप्लवपीडिताः जना: सुरक्षिताः▪️ 🟰इंडोनेशियादेशे भूस्खलनस्य कारणेन स्वर्णधातो: खानौ निपीडिता: भूरि श्रमिकजना: , द्वादश जनानां मृत्युः, 48 जनाश्च सूच्यन्ते विलुप्ता:▪️ 🟰 मुंबईवासिनां कृते महार्घताया: अपरः कष्टपात:, CNG PNG इतीन्धनस्य मूल्यम् एधितम्, सम्प्रति उपभोक्तृजनैः नूतनमूल्यस्य अनुसारेण एककिलोग्राममिताय CNG कृते 75 रूप्यकाणि PNG कृते च 48 रूप्यकाणि भविष्यन्ति प्रदेयानि▪️ 🟰 जलमयमेव जातं मुंबईमहानगरम्, सुरक्षादृशा प्रख्यापिता रेड अलर्ट इत्याख्या शोणसञ्चेतना, रेल-विमान-सेवा: दुष्प्रभाविता:▪️ 🟰फ्रांसनिर्वाचनेषु वाम दालानां विजय: , राष्ट्रपते: मैक्रों इत्यस्य दलं पराभूतम्, पेरिस-नगरं समेत्य भूरि नगरेषु हिंसाया: भीषणताण्डव: ▪️ 🟰 कश्मीर टाइगर्स इत्याख्येन आतङ्किगुल्मेन स्वीकृतं कठुआ आतङ्क्याक्रमणस्य दायित्वं, यस्मिन् आतङ्क्याक्रमणे सैन्यबालस्य पञ्च भटा: आसन् हुतिंगता:▪️ 🟰 कांवड़यात्राया: कारणेन चलते जुलाई द्वाविंश्या: भारवाहियानेभ्य:, जुलाई सप्तविंश्या: च लघु वाहनेभ्यश्चापि पिहितो भविष्यति दिल्ली-मेरठ एक्सप्रेसवे इत्याख्यः द्रुत गामिमार्ग:▪️
Read More » -
देश
हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् प्राप्तं
💦युवराजवाणी💦 । झारखण्ड-विधानसभायाम् अद्य हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् अधिगतम्। झारखण्ड-मुक्तिमोर्चाया: नेतृत्व-युतस्य संयुते: पञ्चचत्वारिंशद् विधायकै: विश्वास-प्रस्तावस्य पक्षे मतदानम् आचरितम्। अत: पूर्वं मुख्यमन्त्री हेमन्त:…
Read More » -
देश
⚽🥎🏑🏋🏻⛹🏻♀️ “पेरिस-ओलंपिक” इति क्रीडामहाकुम्भस्य प्रतीपगणना प्रारब्धा ,
💦वार्ताहर:-युवराज:💦। 🟡 खेलानां महाकुम्भस्य ओलम्पिक इत्यस्य प्रारम्भे अधुना नैवाधिक: समय: समवशिष्यते। ऐषम: क्रीडामहाकुम्भानुष्ठानस्य यजमानत्वस्य अधिकार: पेरिसनगरेण प्राप्तम् अस्ति। विगते वर्षे…
Read More » -
उत्तरप्रदेश
उत्तरप्रदेशस्य अयोध्यायां 750 कोटिरूप्यकै: निर्मास्यते विश्वस्तरीय: मन्दिरसङ्ग्रहालय:
💦वार्ताहर:-💦युवराज:। अयोध्यायां 750 कोटिरूप्यकै: विश्वस्तरीय: मन्दिरसङ्ग्रहालयस्य (भारतीयमन्दिरसङ्ग्रहालयस्य) निर्माणं करिष्यते। अस्मिन् सङ्ग्रहालये भारतीय संस्कृते: उद्भवत: आरभ्य अधुना पर्यन्तानां वस्तूनां संयोजनं सङ्ग्रहश्च…
Read More » -
उत्तराखण्ड
ज्ञानकुम्भः कुम्भनगरे हरिद्वारे भविष्यति
।हरिद्वारं। शिक्षासंस्कृति-उत्थानन्यासस्य तथा देवसंस्कृतिविश्वविद्यालयस्य हरिद्वारस्य संयुक्ताश्रयेण सितम्बरमासस्य तृतीयसप्ताहे ज्ञानकुम्भस्य आयोजनं भविष्यति। ज्ञानकुम्भस्य आयोजनार्थं न्यासस्य कार्यकर्तृभिः विश्वविद्यालयस्य अधिकारिभिः सह एका सभा…
Read More » -
उत्तराखण्ड
अखिलभारतीयदर्शनपरिषद्भारतद्वारा हेमवतीनन्दनगढ़वालविश्वविद्यालयस्य दर्शनशास्त्रस्य सहायकप्राध्यापिका डॉ. कविताभट्टशैलपुत्री सम्मानिता अभवत्
अखिलभारतीयदर्शनपरिषदः, भारतस्य ६८तमं वार्षिकसत्रं कश्मीरविश्वविद्यालयस्य श्रीनगरस्य कश्मीरस्य भव्यसभाशालायां सम्पन्नम् अभवत्। अस्मिन् सम्मेलने सम्पूर्णे भारते विभिन्नराज्येभ्यः दर्शनशास्त्रस्य जगतः प्रायः चतुःशताः शिक्षाविदः,…
Read More »