संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
विहार

सद्गुणस्य मूल्यानाञ्च निर्माणे संस्कृतभाषायाः महत्वपूर्णा भूमिका- ‘डॉ.सरस्वती-कुमारी’

भारतस्य प्रतिष्ठा संस्कृते संस्कृतौ च आधारिता अस्ति-. " डा.रामसंयोगराय:"

भारतस्य प्रतिष्ठा संस्कृतनिष्ठा
बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य २९ दिनाङ्कात् आरभ्य सितम्बरमासस्य ०३ दिनाङ्कं यावत् संस्कृतसप्ताहस्य आयोजनं कृतम्।
अवसरेऽस्मिन् छात्रेषु निहितप्रतिभां प्रकाशयितुं प्रश्नोत्तरम्, निबन्धलेखनम्, भाषणम्, पाणिनीया-अष्टाध्यायी-सूत्रान्त्याक्षरी, श्लोकान्त्याक्षरी, सस्वरश्लोकवाचनम्, चित्रनिर्माणं प्रभृतीनां प्रतियोगितानाम् आयोजनमपि विहितम्।
एतासु प्रतियोगितासु प्रथमद्वितीयतृतीयस्थानभाजः प्रतिभागिनः अतिरिच्य भागग्रहीतारः प्रतिभागिनः सान्त्वनापुरस्कारैः पुरस्कृताः।

समारोहेऽस्मिन् महाविद्यालयस्य शिक्षकैः (डॉ. रंजीतकुमारठाकुरः, डॉ. नीतेशकुमारमिश्रः, डॉ. विभूतिनाथझाः, डॉ. रेणुझाः, डॉ. नियतिकुमारी) तथा शिक्षकेतरकर्मचारिभ्यां ( राजकुमारझा , मुकुन्दकुमारः ) च स्व-स्वविचाराः प्रकटीकृताः।

छात्रान् सम्बोधयन्ती कार्यक्रमस्य संयोजिका डॉ.सरस्वती-कुमारी अवदत् यत् सद्गुणस्य मूल्यानाञ्च निर्माणे संस्कृतभाषायाः महत्त्वपूर्णा भूमिका अस्ति इति। अध्यक्षीयभाषणे महाविद्यालयस्य प्रधानाचार्येण डॉ. रामसंयोगरायमहोदयेन उक्तं यत् भारतस्य प्रतिष्ठा संस्कृते संस्कृतौ च आधारिता अस्ति। संस्कृतविषये वृत्तेः अवसराणाम् अभावो नास्ति इति। दर्शनविषयकसहायकप्राध्यापकेन डॉ. छबिलालन्यौपानेमहोदयेन कार्यक्रमस्यास्य मञ्चस्य सम्यक्तया सञ्चालनं कुर्वता उक्तं यत् राष्ट्रीयचेतनायाः सूत्राणि संस्कृतभाषायां निहितानि सन्ति। अतः राष्ट्रियभावनायाः प्रचाराय प्रसाराय च संस्कृतभाषायाः तन्निबद्धशास्त्राणाञ्च अध्ययनम् अध्यापनं च अनिवार्यम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button