संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
आन्ध्रप्रदेश

विशाखपत्तने संस्कृतभारत्याः बालकेन्द्रस्य वार्षिकोत्सवः जातः

आन्ध्रप्रदेश: । विशाखपत्तने मार्चमासे २६ दिनाड़्के संस्कृतभारत्याः बालकेन्द्रस्य वार्षिकोत्सवः जातः। केन्द्रं केतवरपु: ज्योतिभगिनी चालितवती। सायङ्काले ६ वादनतः सांस्कृतिककार्यक्रमाः अभवन्। सर्वे बालाः साम्प्रदायवस्त्राणि धृतवन्तः। बालाः बहु उत्साहेन उत्तमतया सांस्कृतिककार्याक्रमान् कृतवन्तः। शिक्षिकाः अमितानन्देन कार्यक्रमं चालितवत्यः ।

विशाखपत्तनमहानगरस्य सहाध्यक्षा सूर्यकुमारी महोदया उक्तवती यत् “अहं संस्कृतभारत्याः कार्यं दृष्ट्वा बहु आनन्दम् अनुभवामि। सर्वैः संस्कृतं पठनीयं, संस्कृते ज्ञानं निक्षिप्तम् अस्ति। वयं तत् ज्ञानं प्राप्नुमः, एतदर्थं वयं प्रयत्नं कुर्मः इति।

श्री सर्वेश्वरराव: ( retd engineer, _Hill View Park President) स्वभाषणे उक्तवान् यत् “अहं बाल्यकाले संस्कृतं न पठितवान्, परन्तु संस्कृतं बहु इच्छामि। बहु ज्ञानं संस्कृते एव अस्ति” ।

आन्ध्रप्रदेशस्य प्रान्त बालकेन्द्रप्रमुखा श्रीमती अरुणश्रीः भगिनी बालकेन्द्रस्य आवश्यकताम् एवमेव बालकेन्द्राणां द्वारा व्यक्तित्वनिर्माणं च उक्तवती इतोऽपि उत्तमतया संस्कृतप्रचारं कुर्मः इत्यपि उक्तवती।
डा. उपद्रष्टा वेड़्कटरमणमूर्तिमहोदयः अखिलभारतबालकेन्द्रप्रमुखः उक्तवान् यत् “बालकेन्द्रद्वारा संस्कृतं , संस्कार:, देशभक्ति:,दैवभक्ति:, कर्तव्यं:, धर्म:, इत्यादि : प्राप्यते एवमेव बालदेशभक्तानां चरितम् अपि महोदय: विवृतवान्।
बहवः कार्यकर्तारः अभिमानिनः च भागं स्वीकृतवन्तः
आन्धप्रदेशे ग्रीष्मकाले बालकेन्द्राणां ग्रीष्मकालवर्गाः आरप्स्यन्ते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button