संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

संस्कृताकादमीद्वारा शिक्षाप्रवर्धनार्थं कृतं निःशुल्कपुस्तकानाम् आवंटनम्।

संस्कृतम् अस्माकं द्वितीया राजभाषा अस्ति, अत: तत्व्यवहारे संस्कृतं स्थापयितुं सर्वैः अग्रे आगन्तव्यं---"एस.पी.डबरालवर्य:"

हरिद्वार। उत्तराखण्ड-संस्कृत-अकादमी संस्कृतभाषायाः उन्नयनार्थं सततं प्रयतते । शुक्रवासरे शिक्षाप्रवर्धनार्थं संस्कृताकादमीद्वारा संस्कृतछात्राणां कृते राज्ये संस्कृतपुस्तकानि वितरितानि। पाठ्यक्रमस्य एतानि पुस्तकानि प्राथमिकसंस्कृतविद्यालयेभ्यः, संस्कृतविद्यालयेभ्यः, महाविद्यालयेभ्यः च दत्तानि सन्ति । छात्राणां कृते क्रयणं मूल्यानुसारेण अधिकं भवति । एतेषां पुस्तकानां व्ययः प्रायः चतुर्लक्षरूप्यकाणि भवति अत: छात्रा: संस्कृतभाषायाः अध्ययनं कर्तुं शक्नुयु: एतदर्थं अकादम्या: निशुल्कवितरणं कृतं

उत्तराखण्डसंस्कृत-अकादम्या: कोषाध्यक्षः एस.पी.डबरालवर्य: अवसरेस्मिन् उक्तवान् यत् संस्कृतम् अस्माकं द्वितीया राजभाषा अस्ति, अत: तत्व्यवहारे संस्कृतं स्थापयितुं सर्वैः अग्रे आगन्तव्यं।

वितरणावसरे अत्र राज्यत: संस्कृतसहायकनिदेशका: डॉ. पद्माकरमिश्र:, डॉ. वजश्रवा-आर्य:, डॉ. रामभूषणबिजलवाण:, डॉ. नवीनजोशी, डॉ. हरीशगुरुरानी, ​​रामकठैत: आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button