संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

वाल्मीकिमासमहोत्सवस्य उपलक्ष्ये अभवत् हरिद्वारे व्याख्यानं

हरिद्वार। उत्तराखण्ड-संस्कृत-अकादमीद्वारा “वाल्मीकिमासमहोत्सवस्य” उपलक्ष्ये उत्तराखण्डस्य प्रतिजनपदे वाल्मीकीकृतरामायणमाधृत्य आश्विनपूर्णिमातः, कार्तिकपूर्णिमापर्यन्तम् (२८ अक्टूबर, २०२३ दिनाङ्कतः २७ नवम्बर, २०२३ दिनाङ्कपर्यन्तम्) अन्तर्जालीया संस्कृतव्याख्यानमाला समायोज्यते।
अवसरेस्मिन् हरिद्वारजनपदे अपि २२दिनांके हरिद्वारे उत्तराखण्ड-संस्कृत-अकादमीद्वारा “वाल्मीकिरामायणे मानवीयमूल्यानि” इत्यस्मिन् विषये व्याख्यानमाला समामन्त्रिता आसीत् । यत्र मार्गदर्शकेषु श्री एस.पी.खाली सचिवः उत्तराखण्ड-संस्कृत-अकादमी-हरिद्वारत:, कार्यक्रमाध्यक्षः प्रो. दिनेशचन्द्रः शास्त्री कुलपतिः उत्तराखण्डसंस्कृतविश्वविद्यालयत: , मुख्यातिथिः प्रो.योगेशचन्द्र: दुबे कुलपतिचरः श्रीरामभद्राचार्यदिव्यांगविश्वविद्यालयत:, मुख्यवक्ता प्रो. लक्ष्मीनिवासपाण्डेयः आचार्यः, शिक्षाशास्त्रकेन्द्रीय- संस्कृतविश्वविद्यालयलखनऊपरिसरत:, सहवक्ता-डॉ. आशुतोषगुप्तः सहाचार्यः हेमवतीनन्दनबहुगुणागढवाल:- विश्वविद्यालयश्रीनगरत: , विशिष्टातिथिः डॉ.अरविन्दनारायणमिश्रः विभागाध्यक्षः, शिक्षाशास्त्रविभाग-उत्तराखण्डसंस्कृतविश्वविद्यालयत:,
जनपदसंयोजिका डॉ.विन्दुमतीद्विवेदी सहायकाचार्याशिक्षाशास्त्रविभाग-उत्तराखण्ड-संस्कृत -विश्वविद्यालयहरिद्वारत: , जनपदसहसंयोजकः डॉ. सुमनप्रसादभट्टः सहायकाचार्य:, शिक्षाशास्त्रविभाग- उत्तराखण्डसंस्कृतविश्वविद्यालयहरिद्वारत: समुपस्थिता: आसन्। वक्तृभि: वाल्मीकिरामायणे मानवीयमूल्यविषये स्व स्व वक्तव्यं स्पष्टीकृतं ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button